वार्ताहर:- डॉ.दिनेश चौबे, उज्जयिनी
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य विशिष्टसंस्कृतविभागेनायोजिताष्ट दिवसीया “अलङ्कारशास्त्रविमर्श:” इति विषयिका राष्ट्रीयकार्यशालाया: समापनं 15-03-2024 तमे दिनाङ्के पूर्वाह्णे 11:00 वादने सञ्जातम् । आदौ दीपप्रज्वलन – वैदिकमंगलाचरण – कुलगानञ्च अभवत् । मुख्यातिथिरुपेण समागत: कालिदाससंस्कृत- अकादमी, इत्यस्य निदेशक: डॉ.गोविन्दगन्धेमहोदय: उक्तवान् यत् काव्यगतसौन्दर्यवृद्धिकारकमेव अलङ्कारः कथ्यते । वस्तुतः वर्णनशैली एव अलङ्कारः भवति । यतोहि अनेन अलङ्कार संख्यायां वृद्धिरपि भवति । एवमेव हि अलङ्कारशास्त्रस्य विभिन्नविषयानामध्ययनस्य आवश्यकता विद्यते। शास्त्रचिन्तनेनैव शास्त्रसंरक्षणं भवितुं शक्यते। सारस्वतातिथिरुपेण समागता डॉ. वन्दनात्रिपाठीमहोदया सेवानिवृत्ता, आचार्या , शासकीय कन्यामहाविद्यालयः , उज्जयिनी अनयापि कथितं यत् शब्दार्थयुक्त्या , प्रभावी, रोचकतापूर्ण, काव्यशोभा वर्णनमेवावलङ्कारः । सभाध्यक्षीयोद्बोधने मान्य: कुलपति: प्रो.विजयकुमारसीजी वर्य: उक्तवान् यत् भारतीयकाव्यशास्त्रस्य तात्पर्यं सस्कृतकाव्यशास्त्रमेवास्ति ।अन्यभारतीयभाषासु संस्कृतस्य मूलसिद्धान्तमेव स्वीकृतमस्ति। विभिन्नै: सम्प्रदायसंस्थापकाचार्यै: भारतीयसंस्कृतकाव्य-साहित्यस्य विभिन्नावयवव्याख्या कृतास्ति । कार्यक्रमस्य संयोजिका डॉ.पूजा उपाध्यायामहोदयया प्रतिवेदनपत्रं प्रस्तुतम्। सञ्चालनम् आभारञ्च सुश्रीपूजागौर कृतवती।











