- ताइवान देशे आगतेन भीषण-भूकम्पेन अधुना यावत् नवजना: पञ्चातां प्राप्ता: सूच्यन्ते।
- 7.4 तीव्रतान्वित: एष: भूकम्प: विगतेषु 25 वर्षेषु सर्वाधिक: प्रचण्ड: भीषणतमश्च भूकम्प: प्रतिपाद्यते। सुरक्षाधिकारिभि: सूच्यते यत् भूकम्प-कारणेन 800 मिता: जना: व्रणिताः सन्ति।
- आपदुद्धारकर्मिण: ध्वंसावशेषेषु निरुद्धजनानाम् अन्वेषणपूर्वकम् उद्धारं कुर्वन्त: सन्ति। एतादृशानां अवरुद्धानां संख्या 100 प्राया भवितुं शक्नोति।
ताइवान देशे समागते प्रचण्डे भूकम्पे न्यूनान्न्यूना: नवजना: मृता:, सप्तशताधिका: जनाश्च व्रणिताः सूच्यन्ते। भूकम्पमापनयन्त्रेण 7.4 वेगमित: तीव्रतायुत: भूकम्प: अद्य ताइवानदेशस्य पूर्वीये तटे समागत:, येन तस्मिन् क्षेत्रे सुनामीति सामुद्रिक-झञ्झावातस्य सञ्चेतनापि प्रख्यापिता वर्तते। यूनाइटेड स्टेट्स जियोलॉजिकल सर्वे (USGS) इति संस्थया प्रोदितं यत् भूकम्पस्य तीव्रता 7.4 वेगयुत: अवर्तत यस्य केन्द्रं ताइवान-देशस्य हुआलिएन-नगरात् अष्टादश-किलोमीटर-मिते दक्षिणे 34.8 दशमलवोत्तराष्टाधिकचतुस्त्रिंशत् किलोमीटरमितायां गहनातायाम् आसीत्। ताइपे-नगर्या: भूकम्प-विज्ञान-केन्द्रस्य निदेशकेन “वू चिएन फू” इत्यमुना प्रतिपादितं यत्, भूकम्प: समस्ते ताइवान-देशे, अपतटीय-द्वीपेषु च जनैः भृशं समनुभूत:। एष: भूकम्प: विगतेषु पञ्चविंशतिः वर्षेषु सर्वाधिक: प्रचण्ड: भूकम्प: वर्तते। प्रारम्भिक-सूचना-विवरणस्य अनुसारेण, हुआलिएन क्षेत्रे भूरि भवनानि आंशिक रूपेण ध्वस्तीभूतानि सन्ति। कतिपय-भवनानि तु भयङ्कर-कोणेषु अवनातानि दरीदृश्यन्ते। अधिकारिभि: प्रोक्तं यत्, नैके जना: भवनेषु एव निरुद्धा: सन्ति। भूकम्पस्य कारणेन दक्षिणजयप्राणे (जापान) अपि सुनामीति सामुद्रिक-झञ्झावातस्य सञ्चेतनापि प्रख्यापिता वर्तते। स्रोतसाम् अनुसारेण, अद्य प्रात: प्राय: सपाद-नववादने (9:18) योनागुनीत्याख्ये द्वीपे 30 सेंटीमीटरमित: सुनामीति सामुद्रिक-झञ्झावातस्य अनुभव: कृत: (जापान) जयप्राणदेशस्य समयस्य अनुसारेण। फिलीपींस-देशस्य भूकम्प-विज्ञानाभिकरणेन अपि सुनामीति सामुद्रिक-झञ्झावातस्य सञ्चेतना प्रख्यापितास्ति। चीनदेशीयेन प्राशासनिक-सञ्चार-माध्यमेन प्रोदितं यत् चीनस्य दक्षिण-पूर्वीये फ़ुज़ियान प्रान्ते कतिपयेषु भू भागेषु भूकम्पस्य अनुभव: जात: इति।











