पाणिनिविश्वविद्यालये शास्त्रार्थसभायाः आयोजनं जातम्।

वार्ताहर:- डॉ.दिनेश चौबे, उज्जयिनी

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये मार्चमासस्य त्रयोविंशे दिनाङ्के शास्त्रार्थसभाया: आयोजनं जातम्। अस्यां शास्त्रार्थसभायां देशस्य अधिमान्य: विद्वांसः विद्यार्थिनश्च विभिन्नेषु शास्त्रेषु शास्त्रार्थं प्रस्तुतवन्त:। शास्त्रार्थसभाया: अध्यक्ष: वाराणसीस्थकाशीहिंदूविश्वविद्यालयस्य सेवानिवृत्त:, आचार्य: प्रसिद्ध: शास्त्रार्थीविद्वान भगवतशरणशुक्लवर्य: आसीत्। तेनोक्तं यत् शास्त्रार्थेन विषयविशेषज्ञताया: सृजनं , विषये अधिकार: प्रतिपादनक्षमतश्च परिपक्क्वा भवति। मुख्यातिथि: रामकिशोरत्रिपाठीवर्य: ,आचार्य: सम्पूर्णानन्दसंस्कृतविश्वविद्यालय:, वाराणसी उक्तवान् यत्, काश्या: इयं परम्परा सर्वत्र देशे नानास्थानेषु स्थितेषु विश्वविद्यालयेषु प्रसरिता स्यात्। तदा एव शास्त्रसंरक्षणं भवितुं शक्यते।शास्त्रार्थसभायां ,डॉ. संदीपशर्मा, न्यायशास्त्रे , आचार्य: विरुपाक्षजड्डीपाल:,उज्जयिनी साहित्यशास्त्रे , डॉ.कार्तिकभागवत, मुम्बई, व्याकरणशास्त्रे शास्त्रार्थं कृतवन्तः । विश्वविद्यालये आयोजिताया: शास्त्रार्थकौशल प्रशिक्षणकार्यशालाया: समापनसत्रे विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारसीजीवर्य: कथितवान् यत् काश्या: परम्पराया: अवन्तिकायामपि प्रचलनं भवेत्। राजाविक्रमादित्यस्य नवरत्नानि विश्वप्रसिद्धानि सन्ति। पुनः विभिन्नेषु शास्त्रेषु नवरत्नानां निर्माणस्य दायित्वम् अस्माकम् एव । कुलपतिना अस्मिन् अवसरे शास्त्रशिरोमणिसम्मानेन विदुषां सम्मान्नं कृतम्। ।संयोजकेन साहित्यविभागप्रमुखेन डॉ. तुलसीदासपरोहामहोदयेन वाचिकस्वागतप्रतिवेदनश्च प्रस्तुतम् । डॉ. गंगाशरणव्यासवर्य: विस्तृतकार्यवृत्तं श्रावितवान्। शास्त्रार्थसभाया: संचालनं डॉ. उपेंद्रभार्गवमहोदयेन, आभारं सहसंयोजकेन डॉ. कृष्णकुमार त्रिपाठीवर्येण कृतम्। एवमेव समापनसत्रस्य संचालनं डॉ. कृष्णकुमारत्रिपाठिन: आभारञ्च डॉ. पूजोपाध्यायमहोदया कृतवती।