राष्ट्रिय-शैक्षिक-अनुसंधान-अथ-प्रशिक्षण-परिषदा प्रोक्तं यत् एन.सी.ई.आर.टी. इति संस्था छात्रेभ्यः विद्यालयीय-पाठ्यपुस्तकानां समयेन उपलब्धताम् आलक्ष्य यथासंभव प्रयासं कुरुते इति।
सन्देशे प्रोक्तं यत् प्रथम-द्वितीय-सप्तम-अष्टम-दशम-द्वादशकक्षाणां- त्रयस्त्रिंशल्लक्षसंख्याकानि पुस्तकानि मुद्रितानीति, पुस्तकानि च विपण्यान्तं यावत् प्रापितान्यपि। एन.सी.ई.आर.टी. इति संस्थया अग्रे प्रोक्तं यत् तृतीयषट्किक्षयोः पुस्तकानि अस्य मासस्य अन्ते, मई-मासे च प्रकाशयिष्यन्ते। चतुर्थपञ्चमनवमैकादश- कक्षाणां पुस्तकानि अप्रैलमासान्तं यावत् आणणेषु उपलब्धानि भविष्यन्तीति। संस्थया अभिभावकाः आश्वासिताः यत् ते चिन्तामुक्ताः भवन्त्विति।
संस्थायाः सन्देशोऽयं विद्यालयीय-पुस्तकानाम् अनुपलब्धता-सम्बन्धितां अपुष्टसूचनाम् आलक्ष्य आसीत्।
एते परिवर्तनाः एनसीईआरटी-द्वारा शैक्षणिकवर्षस्य २०२४-२५ कृते विद्यालयपाठ्यपुस्तकानां पुनरीक्षणस्य भागाः सन्ति, येषां सूचना केन्द्रीयमाध्यमिकशिक्षामण्डलाय (सीबीएसई) अद्यैव कृतम् ।
पुरातनपुस्तकस्य अभ्यासविभागे “बाबरीमस्जिदस्य विध्वंसनम्” षट् राजनैतिकघटनासु अन्यतमम् अस्ति, येषां व्यवस्थापनं कालक्रमेण कर्तव्यम् अस्ति । अस्य स्थाने रामजन्मभूमिविषये सर्वोच्चन्यायालयस्य निर्णयः स्थापितः अस्ति।











