सर्वं नूतनं दृश्यते (बाल कथा)

बहूनि पुष्पाणि, बहवः वर्णाः, भूयांसः कूजन्तः पक्षिणः, कूर्दन्तः चिक्रोडाः च मीनूं परितः वर्तन्ते। सा रमणीयप्रकृतिसौन्दर्येण परिमन्त्रिता इव अस्ति। अहो! एषः वसन्तर्तुः समुपागतः।

अद्य वसन्तपञ्चमी। “एतत् वसन्त-ऋतोः प्रथमं दिनम् ” इति मम पितरौ वदतः। वसन्तर्तुः शिशिरग्रीष्मकालयोः अन्तरितः कालः ।
भारतदेशे बहुषु प्रदेशेषु जनाः विद्या-कला-सङ्गीतादीनाम् अधिष्ठात्रीं देवीं सरस्वतीं पूजयन्ति। मम गृहपार्श्वे विद्यमाने वृक्षे भूयांसः पक्षिणः दृश्यन्ते। ते मम कृते एव गानं कुर्वन्ति इति मन्ये । वृक्षे नूतनानि पर्णानि प्रकाशमाणानि दृश्यन्ते। साक्षात् मम नूतनः चोलः इव। अम्बा पीतवर्णां शाटिकां धरति। कीदृशः सुन्दरवर्णः ‘पीतवर्णः’, ततोऽपि सुन्दर-नाम पीताम्बरम् इति ।
मया एकः वृक्षः आरोपणीयः इति पितामहः इच्छति। “परन्तु किमर्थम्?” इति पृच्छामि। “तेन त्वया सह वर्धमानं मित्रमेकं लभेथाः।“ सः वदति। “नूतनेभ्यः अनुष्ठानेभ्यः युक्तः अयं वसन्तर्तुः।”
आवाम् उद्यानं गच्छावः। पितामहः अहं च तत्र भूमौ एकं गर्तं खनित्वा एकं सस्यम् आरोपयावः। “कियान् उन्नतः भविष्यति अयं वृक्षः?” इति अहं तं पृच्छामि ।
“प्रतीक्षां कृत्वा पश्य वत्से” इति सः वदति। चिक्रोडाः परस्परम् आखेटयन्तः क्रीडन्ति। टिङ्गु-नामा बिडालः एकं चिक्रोडम् अनुधावति। अहं च टिन्गुम् अनुधावितुम् इच्छामि ।
उद्यानं विविधवर्णैः पुष्पैः परिपूरितम् अस्ति। पीतवर्णं पाटल-पुष्पं मह्यं, श्वेतवर्णमल्लिका पितामहाय च अतीव रोचते। केषाञ्चित् वृक्षाणाम् अधः आस्तरणवत् विकीर्णानि पर्णानि दृश्यते ।
बहवः वृक्षाः पुष्पभरिताः सन्ति। मह्यं वसन्तर्तुः बहु रोचते। वसन्तर्तौ सर्वं सुन्दरं रमणीयं च दृश्यते ।
श्वः होलिकोत्सवः। पाठशालायां दिनद्वयस्य विरामः अस्ति । वयं कृशकाष्ठानि लघुसमिधान् च उपयुज्य एकां बृहतीं होलिकां निर्मितवन्तः। अस्मासु केचन वनं गत्वा पलाशपुष्पाणि आनीतवन्तः। मनुः तानि वाप्यां स्थापितवान्। तेन जलं गाढं नारङ्गवर्णम् आप्नोत् ।
श्वः तेन जलेन जलक्रीडां कृत्वा मोदिष्यामहे। मधुरभक्षणानि, पूरिकाः च लभ्यन्ते। वसन्तर्तुः अतीव सुखमयः कालः। सः न अतिशीतलः, न अत्युष्णः न च आर्द्रः। अहं आदिनं क्रीडितुं शक्नोमि ।