डॉ०भीमराव-अम्बेडकरजयन्त्युत्सवः

शिक्षितो भवेत्, संगठितो भवेत्, सङ्घर्षञ्च कुर्यात् – डॉ० भीमराव-अम्बेडकरः

वार्ताहर:- डॉ० छबिलालन्यौपाने

बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन डॉ०भीमराव-अम्बेडकरजयन्त्याः पूर्वसन्धायाम् अम्बेडकरजयन्तीमभिलक्ष्य एकस्य कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्याध्यक्षं निर्वहता महाविद्यालयस्य प्रभारीप्रधानाचार्येण डा०रामसंयोगरायमहोदयेन छात्रानुद्बोधयता सामाजिकन्यायस्य संवैधानिकनैतिकतायाश्च प्रासङ्गिकताविषये स्वविचाराः प्रकटीकृताः। एतैः शिक्षितो भवेत्, संगठितो भवेत्, सङ्घर्षञ्च कुर्यात् इति अम्बेडकरमहोदयस्य महत्त्वपूर्णं वक्तव्यं रेखाङ्कितं कृतम्। कार्यक्रमस्य सञ्चालनं कुर्वता महाविद्यालयस्य दर्शनविषयकसहायक-प्राध्यापकेन डॉ० छबिलालन्यौपानेवर्येण डॉ. भीमराव-अम्बेडकरस्य सामाजिकयोगदानस्य विषये सम्बोधयन् उक्तं यत् – अद्यत्वेऽपि अपि तस्य संवैधानिकसामाजिकविचारान् स्वीकर्तुम् आवश्यकाः येन वयं समृद्धम्, समानभावपूर्णम्, न्यायपूर्णञ्च च समाजम् अग्रेसरं कर्तुं शक्नुयाम। महाविद्यालयस्य अन्यैः शिक्षकैरपि अम्बेडकरविषयकाः स्व-स्वविचाराः उपस्थापिताः। अवसरेऽस्मिन् महाविद्यालयस्य विद्यार्थिभिः कबीरदास-अंजुकुमारी-श्रुतिप्रिया-अंजलिकुमारीप्रभृतिभिः अम्बेडकरविचारसम्बद्धगीत-भजन-कविता-भाषणानि प्रस्तुतानि। कार्यक्रमेऽस्मिन् महाविद्यालयस्य सहायक-प्राचार्याः डॉ०नितेशकुमारमिश्र-डॉ०सरिताकुमारी-डॉ०नियतिकुमारी-डॉ०सरस्वतीकुमारी-डॉ०रंजीतकुमारठाकुरप्रभृतयः, कार्यालयसहायकः राजकुमारझा, तथा महाविद्यालयीयछात्राः नीतिशकुमार-तुलसीकुमारी-सुधीरकुमारशर्मा-सुधीराकुमारी-दिलखुशकमती-आराध्याप्रिया-अभिनवकार्तिकादयश्चोपस्थिताः आसन्।