वार्ताहर:- कुलदीपमैन्दोला कोटद्वारं
गेप्ससंस्थाया: सहयोगीसंस्थाया: देवभूमि- उत्कर्षसेवासमिते: कार्यकारिणीविस्तार: सञ्जात: । श्री रमाकान्तकुकरेती सर्वसम्मतिद्वारा देवभूमि-उत्कर्षसेवासमिते: कार्यकारी-अध्यक्ष:, कुलदीपमैन्दोला महासचिव:, कुमारी आंचल: सहमन्त्री अभवत्। श्रीमती नीरजा गौड: सर्वसम्मत्या गेप्ससंस्थाया: अध्यक्षत्वेन निर्वाचिता अस्ति। गेप्ससंस्थाया: नवकार्यकारिण्यां दिनेशचौधरी उपाध्यक्ष:, श्रीमती रेखा ध्यानी उपाध्यक्ष:, मनमोहनकाला कोषाध्यक्ष: एवं अभियन्ता जगतसिंहनेगी महासचिव: तथा श्रीमती मीनाक्षी बर्थवाल: सहमन्त्रीदायित्वं प्राप्तवन्त: । सर्वेभ्यः नवनिर्वाचितसदस्येभ्यः सरलसमारोहे शपथग्रहणं कुर्वन् जीएपीएस-संस्थायाः संस्थापकनिदेशकः आरबी-कण्डवालः आशां कृतवान् यत् नूतनकार्यकारिणी तेषां परिवारस्य, अस्माकं सर्वेषां च उत्तरदायित्वैः सह सामाजिक-राष्ट्रीयहिताय कार्यं निरन्तरं करिष्यति | जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इत्यनया
भावनया कार्यं करिष्यति।
समारोहेस्मिन् श्रीमती नीरजा गौड:, रामभरोसेकण्डवाल:, जगतसिंहनेगी, मनमोहनकाला, रमाकान्तकुकरेती, कुलदीपमैन्दोला, आंचलविष्ट:, श्रीमती रेखा ध्यानी, श्रीमती मीनाक्षी बर्थवाल: एवं दिनेशचंद्रचौधरी आदय: उपस्थिता: आसन्।











