डॉ. भीमराव अम्बेडकरस्य १३३ तमः जयंती

  • डॉ. भीमराव अम्बेडकरस्य जन्म १८९१ तमस्य वर्षस्य एप्रिल-मासस्य १४ दिनाङ्के अभवत् ।
  • प्रतिवर्षम् अस्मिन् दिने तस्य योगदानस्य कृते श्रद्धांजलिः प्रदत्ता भवति ।
  • सः स्वतन्त्रभारतस्य प्रथमः विधिमन्त्री अभवत् ।
  • सः आजीवनं जातिव्यवस्थायाः, महिलानां समानतायाः, समाजात् बृहत्-बृहत्-भेदस्य उन्मूलनार्थं च कार्यं कृतवान् ।

डॉ. बीआर अंबेडकरस्य जयन्त्यवसरे राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः जगदीपधनखड़ः, प्रधानमंत्री नरेंद्रमोदी च संसद् परिसरे तस्मै पुष्पाञ्जलयः समर्पितवन्तः। सममेव देशवासिनां कृते शुभकामनाश्वापि प्रदत्तवन्तः। राष्ट्रपतिः एकस्मिन् ट्वीटसन्देशे प्रोक्तवती यत् सामाजिक-परिवर्तनस्य अग्रदूतेन, बहुमुखी प्रतिभायुक्तेन बाबासाहेब अंबेडकरेण न्यायविद्रूपेण, शिक्षाविद्रूपेण, अर्थशास्त्रित्वेन, समाज-सुधारकत्वेन, राजनीतिक- नेतारूपेण च देशस्य कृते असाधारणं योगदानं प्रदत्तं। श्री धनखड़ेन डॉ. अंबेडकरद्वारा स्थापितानां आदर्शानां परिपालनाय अपि च तस्य न्यायपूर्ण समाजस्य दृष्टिकोणं साकारयितुं कार्यं कर्तुं च जनैः समाह्वानं विहितम्। प्रधानमंत्री प्रोक्तवान् यत् डॉ. अंबेडकरस्य दृष्टिकोणमालक्ष्य अद्यतन नवभारतस्य द्युतिः पूर्णरीत्या भिन्नास्ति।
मध्यप्रदेशस्य नर्मदापुरम्-जनपदे एकां जनसभां सम्बोधयन् श्री मोदी प्रोक्तवान् यत् भाजपा इतिदलेन आधुनिक-भारते बाबा- अम्बेडकरस्य योगदानाय नवीनाभिज्ञानं प्रदत्तम् अस्ति। जनाः निज-दूरभाषयन्त्रेण यत्किमपि वित्तस्य आदान-प्रदानं कुर्वन्ति तस्य नाम भीम यू.पी. आई. इति वर्तते। यः बाबा अम्बेडकरस्य नामाधारितोऽस्ति, श्री मोदी अवदत् यत् एतत् बाबा साहेबस्य संविधानमेवास्ति येन आदिवासि-परिवारस्य पुत्री भारत-देशस्य राष्ट्रपति पदं अलङ्करोति।