भारतस्य खाद्यसुरक्षामानकप्राधिकरणेन स्पष्टीकृतं यत् मसालेषु १० गुणाधिकं कीटनाशकावशेषस्तरं अनुमन्यते, यत् कीटनाशकानां अधिकतमावशेषस्तरस्य (MRL) कठोरतममानकानां मध्ये एकः अस्ति इति। कीटनाशकानां एमआरएलः तेषां मूल्याङ्कनानाम् आधारेण भिन्न-भिन्न-खाद्यवस्तूनाम् कृते भिन्नरूपेण नियतं भवति । भारते २९५ तः अधिकाः कीटनाशकाः पञ्जीकृताः, येषु १३९ केवलं मसालेषु उपयोगाय अनुमोदिताः सन्ति ।
केन्द्रसर्वकारेण स्पष्टीकृतं यत् विश्वस्य एम्.आर्.एल्स्. इति अधिकतम-अवशेष-सीमानां कठोरतम-मानकेषु अन्यतमः मानकः भारते अस्ति तथा च कीटनाशकानां मानकः भिन्न-भिन्न- बाद्यवस्तूनाम् कृते तेषाम् उत्तरदायि-मूल्याङ्कनस्य आधारेण भिन्नरूपेण निर्धारितः भवति। कृषिमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् भारतस्य खाद्य-सुरक्षा-मानक- प्राधिकरणेन वनस्पतिषु उपस्कर-पदार्थेषु च दश-गुणाधिकं कीटनाशकस्य अनुमतिः प्रदीयते इति, संचारतन्त्रैः यः आरोपः सम्प्रति संस्थापितः, सः असत्याधारितः दुर्भावनापूर्णश्व अस्ति । कीटनाशकानां नियमनं कृषिमन्त्रालयेन कीटनाशक-विधेयकान्तर्गतं संघटितस्य केन्द्रीय- कीटनाशक-मण्डलस्य, पञ्जीकरणसमित्याः च माध्यमेन भवति ।











