संस्कृतभारती-उत्तराञ्चलस्य प्रबोधनवर्गः कण्वनगरीकोटद्वारे सम्पन्नः

डा.अरुणध्यानीवर्येण गिरीशतिवारीवर्य: संस्कृतसेवायै सम्मानित: ।

वार्ताहर:-कुलदीपमैन्दोला। श्रीनगरं।

अस्मिन् वर्षे प्रबोधनवर्गस्य आयोजनं संस्कृतभारती- उत्तराञ्चलद्वारा कोटद्वारनगरे कृतम् । जूनमासस्य ५ दिनाङ्कात् आरभ्य सरस्वतीविद्यामन्दिरजानकीनगरे उत्तराखण्डस्य विभिन्नस्थानेभ्यः ६० शिक्षकाः प्रतिभागिनः च वार्तालापस्य वातावरणं निर्मीय समाजाय च संस्कृतं शिक्षितुं सन्देशं दत्तवन्तः। संस्कृतं विहाय विभिन्नविषयेभ्यः सहभागिषु अभियंतार:, शिक्षकाः, विद्युत्कर्मकाः, सेवानिवृत्ताः जनाः, अनेके योगस्य उपाधियुक्ताः जनाः च साधारणजना: , शिक्षिका: अपि अस्मिन् वर्गे संस्कृतभाषायां वक्तुं कौशलं शिक्षन्ति स्म । प्रबोधनवर्गस्य समापनसमारोह: आयोजितोभवत् यस्मिन् कण्वनगर्या: गणमान्यजनै: अपि भाग: गृहीत: । समारोहे प्रास्ताविके प्रान्तमन्त्री गिरीशतिवारी अवदत् यत् १९८१ तमे वर्षे संस्कृतसम्भाषण-आन्दोलनेन २६ देशेषु दशकोटिजनानाम् संस्कृतस्य परिचयस्य कार्यम् अभवत् । 1996त: उत्तराखण्डेपि संस्कृतप्रचारस्य आरम्भ: अभवत् च कोटद्वारे संस्कृतभारत्या: वर्गरूपेण प्रचार: सन्देश: सम्भाषणं प्रारब्धम् ।
मुख्यातिथिरूपेण शैलेन्द्रविष्टः अवदत् यत् कोटद्वारस्य मालिनी, कण्व:, भरत: , भारतस्य च इतिहासः संस्कृतेन सह सम्बद्धः इत: एव अस्ति, अतः कण्वनगरस्य कोटद्वारस्य सौभाग्यम् अस्ति यत् अद्यत्वे अपि वयं संस्कृतसदृशां भाषां दर्शनं कर्तुं समर्थाः स्मः समाजे । विशेषातिथिः गब्बरसिंहविष्टः अवदत् यत् संस्कृतम् अस्माकं भारतस्य परिचयः अस्ति, भारतस्य अवगमने तस्य महत् योगदानम् अस्ति।
१५ वर्षाणि यावत् निरन्तरं संस्कृतसेवां कुर्वती संस्कृतभारत्याः प्रान्तस्य अध्यक्षा श्रीमती जानकी त्रिपाठी अद्यत्वे अपि सर्वा: भाषाः संस्कृतेन स्थाप्यन्ते, संस्कृतमेव भारतस्य एकमेव भाषा प्राचीनाद् अद्यपर्यन्तं या सर्वत्र प्रसृता इति उक्तवती । तया उक्तं यत् अस्माभिः दैनन्दिनजीवने संस्कृतं स्वीकृत्य संस्कृतेन वक्तव्यं यतोहि एतेन सर्वे स्वसंस्कृतेः परिचिताः भवन्ति, मूल्यानि अपि प्रदाति। सा नूतनानां कृते दायित्वम् अपि घोषितम्। रा.इ.का.कण्वघाटी प्रधानाचार्य: श्री रमाकांतकुकरेती कोटद्वारस्य नगराध्यक्ष: एवं सिद्धार्थनैथानी नगरमंत्री, इतेन्द्रनैथानी कोटद्वारनगरसम्पर्कप्रमुख: एवं श्रीमती संतोषडोभाल: कोटद्वारनगरमहिलाप्रमुखा तथा स्वातिकण्डवाल: महाविद्यालयसम्पर्कप्रमुख: । श्री किशोरबिडालिया कोटद्वारनगरशिक्षण प्रमुख: तथा च डॉ. अर्पणरावत नगरमहिलासंपर्कप्रमुखा घोषिता ।
अस्मिन् वर्गे उत्तराखण्डस्य भाषासंस्थानात् सेवानिवृत्तेन डॉ.अरुणमोहनध्यानीवर्येण संस्कृतभारत्याः प्रान्तमन्त्री गिरीशमहोदयः अपि संस्कृते विशेषसंस्कृतसेवायै सम्मानितः तथा च सहैव कविः रोशनबलूनी इत्यपि तिवारीवर्यं चातिथीन् छन्दप्रसून् इति पुस्तकं दत्त्वा सम्मानं कृतवान् । अरुणवर्येण संस्कृतेन सन्देशं प्रदत्तं यत् संस्कृतभारतीसम्भाषणरूपेण गृहं प्रति सम्प्राप्नोति, तदर्थं सर्वे कार्यकर्तारः धन्यवादं अर्हन्ति। अस्मिन् समये कण्वनगरीकोटद्वारे छात्राणां कक्षानुभवः अद्भुतः आसीत्, सन्तोषडोभालद्वारा च आशीषद्वारा तथा च हिमानीद्वारा एवं च नाजियाद्वारा वर्गस्य अनुभवे कथितं यत् अस्माकं मुखे कदा संस्कृतम् आगतम् वयं न जानीम: परन्तु धाराप्रवाहरूपेण अधुना वयं वार्तालापं कर्तुं समर्था: स्म: एतत् सर्वं वर्गस्य प्रभाव: विद्यते ।
कुलदीपमैन्दोला वर्गस्य कथां सर्वेभ्यः कथयति स्म यत् उत्तराखण्डस्य विभिन्नजिल्हेभ्यः विभिन्नविषयेभ्य: यथा आङ्ग्ल:, वाणिज्यं, चिकित्सां, अभियन्ता, शिक्षक, विद्युतकर्मी, बाल:, वृद्धा इत्यादयः प्रतिभागिनः एकसप्ताहं यावत् प्रातः सायं यावत् संस्कृतेन भाषन्ते स्म। कार्यक्रमस्य संचालनं श्री रोशनगौडः कृतवान् । पंकजध्यानी सर्वेभ्यः आभारं प्रकटितवान्। कार्यक्रमे राज्यसंगठनमंत्री गौरवशास्त्री, विष्णु: अग्रवाल:, इतेन्द्र नैथनी, सिद्धार्थ नैथनी, सतीशदेवरानी, ​​पवन:, श्री अरुणमिश्र:, श्री दीपककोठारी, प्राचार्य: मनोजकुमारकुकरेती, कोटद्वारपार्षद् निरुबालाखन्तवाल:, रंजना रावत:, गौरवनौटियाल:, मणिकान्त:, श्रीकान्त: शभम: वृन्दा सामाजिकरूपेण गणमान्या: विख्यातविद्वांश: आदय: उपस्थिता: आसन्।