अत्यन्तं तापेन प्रभावितस्य हजस्य अनन्तरं मृतानां संख्या सहस्राधिकं भवति
प्रबलातपेन पञ्चशत् डिग्री सेल्सियस् इत्यतः अधिक-तापमानेन च सार्धपध्व-शताधिकाः हजयात्रिणः मृत्युमुपगताः। मिस्र देशे विंशत्यधिक-त्रिशतं यात्रिणः निदाघेन तत्सम्बद्ध- रोगप्रभावेण च मृताः। जोर्डन देशस्य राजनयिक-सूत्राणाम् अनुसारम् तत्र षष्टि-जनाः मृताः। मृतकानां सङ्ख्या इतोपि वर्धितुं शक्यते।
मक्का-नगरस्य बहिः स्थिते मिना-उपत्यकायां हज-यात्रिकाः रामी-अल्-जमाराट् (शैतानस्य शिलापातस्य) संस्कारे भागं गृह्णन्ति स्म तदा एषा दुःखदघटना अभवत् रोगप्रभावेण च मृताः।
अनेके भारतीयाः तीर्थयात्रिकाः अपि मृताः
मक्कानगरे तप्ततापे ये प्राणान् त्यक्तवन्तः तेषु बहवः भारतीयाः अपि सन्ति । तेषां संख्या सम्प्रति ६८ इति कथ्यते । भारतस्य हजसमित्याः अनुसारम् अस्मिन् वर्षे अधिकतमं १.७५ लक्षं भारतीयाः हजयात्रायै पञ्जीकरणं कृतवन्तः ।










