अंतर्राष्ट्रीययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते । योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते ।
इतिहासः
२०१४ तमस्य वर्षस्य सितम्बर-मासस्य सप्तविंशतितमे (२०१४-०९-२७) दिनाङ्के भारतगणराज्यस्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदी-महाभागेन संयुक्तमहासभायां भाषणकाले उपस्थापितं यत्, “योगः अस्माकं (भारतस्य) अतिपुरातनम्, अमूल्यं योगदानम् अस्ति विश्वाय । मनसः, शरीरस्य, विचारस्य, कर्मणः, संयमस्य, उपलब्धेः च एकात्मतायाः तथा च मानव-प्रकृत्योः सामञ्जस्यापि मूर्तस्वरूपत्वेन योगः परिगण्यते । योगः न केवलं व्यायामः अस्ति, अपि तु स्वेन, विश्वेन, प्रकृत्या च सह तादात्म्यं स्थापयितुम् उत्तमं साधनम् अस्ति । योगः अस्मासु जागरूकतायाः भावम् उत्पाद्य जलवायुपरिवर्तनस्य समस्यां प्रति सङ्घर्षं कर्तुं बलं दातुं शक्नोति । अतः अस्माभिः अन्ताराष्ट्रिययोगदिवसस्य आरम्भं कर्तुम् अपि प्रयासः करणीयः” इति । उक्ते भाषणे संयुक्तराष्ट्रमहासभायां नरेन्द्र-वर्येण अन्ताराष्ट्रिययोगदिवसस्य प्रस्तावः उपस्थापितः आसीत् । ततः २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकादशे (२०१४-१२-११) दिनाङ्के संयुक्तराष्ट्रमहासभायाः १९३ सदस्यानां समर्थनेन संयुक्तराष्ट्रमहासभाध्यक्षः जून-मासस्य एकविंशतितमं (२१/६) दिनाङ्कम् अन्ताराष्ट्रिययोगदिवसत्वेन उदघोषयत् ।
बान की मून इत्ययं संयुक्तराष्ट्रमहासभायाः अष्टमः अध्यक्षः अवदत्, “अन्ताराष्ट्रिययोगदिवसः योगस्य पवित्रलाभान् प्रति जनान् कर्क्ष्यति (आकर्षितं करिष्यति) । योगः अस्मभ्यम् असङ्क्रमितेभ्यः रोगेभ्यः रक्षणं दातुं शक्नोति । सामुदायिकैकरूपतायाः व्यापकप्रयासत्वेन योगः सर्वान् योजयित्वा परस्परम् आदरभावं जनयिष्यति च” इति । ततः स्ववचनस्य पुष्टतायै सः अवदत्, “योगः एका क्रिया अस्ति, यया विकासाय, शान्त्यै च योगदानं भवितुम् अर्हति । जनाः योगमाध्यमेन अन्येषां समस्यानां निवारणं कृत्वा तेषां जीवनम् उद्विग्नतामुक्तं कर्तुं शक्नुवन्ति” इति ।











