यतो कृष्णः ततो जयः

मार्कण्डेय शार्देय् पटना बिहारस्थ्

यतो धर्मः ततो जयः इति भारतीय उच्चतम न्यायालयस्य ध्येयवाक्यम् (Motto)। प्रायेण अस्माकं सर्वेषां संस्थानानां संस्कृतात् गृहीतं किञ्चद् न किञ्चिद् ध्येयवाक्यम् अवश्यं दृश्यते। वाक्यमिदं महाभारतस्य भीष्मपर्वणः यतो धर्मो द्युतिः कान्तिः यत्र श्रीः श्रीः तथा मतिः। यतो धर्मः ततः कृष्णो यतः कृष्णः ततो जयः (२३.२८) ।। इत्यस्यैव साररूपम्।
विचार्यमिदं यद् श्लोकस्य प्रथमे पादे धर्मस्य प्राथम्यं स्वीकृत्यैव प्रयोगो जातः। पुनः तृतीये चरणे धर्मस्य पुनरुक्तिः कथम्? उत्तरपक्षे कथनमिदं यत् पूर्व तु सामान्यम्। परन्तुः पश्चाद्धर्ति विशिष्टम्। कथं सामान्यं विशिष्टं च? तु; प्रथमं सामान्यं विचार्यम्। अत्र जयस्य षट् तत्त्वानि उल्लिखितानि । प्रथमो धर्मः अर्थाद् न्यायोचितो व्यवहारः। द्वितीयं द्युतिः। इयं प्रीतिः शोभा वा उत्साहरूपा, हर्षरूपा च। यदा युद्धे हर्षोत्साही समायातौ, तदैव जयस्य सम्भावना वरीवर्द्धते। अनेन कारणेन धृतराष्ट्रः युद्धविषये संजयं पृच्छति-
केषां प्रहृष्टाः तत्राग्रे योध युध्यन्ति संजय।
उदग्रमनसः के वा के वा दीना विचेतसः ।।
(भीष्मपर्व- २४.१)
कोनाम हर्षः? तु मनोरथावाप्तौ मनःप्रसादो हर्षः इति भोजराजः। पुनः किं नाम उत्साहः? तुः पुरुषार्थेष्वापरिसमाप्तेः प्रयत्नविशेष उत्साहः इत्यपि भोजराजः। आभ्यां जनानां मुखमण्डले शेषेष्वंगेषु च द्युतिः दृश्यते। हर्षाभावे जयक्षय- कारिणौ मनःपीडादिजन्मा शरीरावसादो ग्लानिः, दैवादिभिः संरम्भ-विघातो विषादो च जयेते। यद्यपि कान्तिरपि द्युतिरेव, तथापि अत्र जये जिगीषा, युयुत्सा च ग्राह्यौ। अशिष्टाचरणे संकोचो हीः। शास्त्र-परिभावनया अर्थनिर्धारणं मतिः। अतः आधर्म-मतिपर्यन्ताः येषां पार्श्वे विद्यमानाः तेषां जयो निश्चितः।
वैशिष्ट्ये आशयो ऽयं यद् धर्म-श्रीकृष्णयोः अन्योऽन्याश्रयः सम्बन्धः सूचितः। वासुदेवः कृष्णः सदा न्यायमार्गी। स तत्रैव तिष्ठते विराजते, यत्र न्यायस्य, सत्यस्य, सदाचारस्य च प्रतिष्ठा दृश्यते। यद्यपि धर्मस्य बहवः पर्यायाः, तेषु न्यायोऽपि। अतः पुण्यम्, श्रेयः, सुकृतम्, वृषः, न्यायः, स्वभावः, आचारः, उपमा, क्रतुः इत्येतेषु अत्र न्याय एव केन्द्रीयो ऽर्थः बोधव्यः। न्याय इत्यस्य शब्दस्य द्विविधं निर्वचनं ध्येयम् १. नियमेन ईयते इति। (नि + इणू + घन), २. नीयन्ते प्राप्यन्ते विवक्षितार्था येनेति च। प्रथमे नि उपसर्गक- इणू धातोः घञ्प्रत्ययाद् अस्योत्पत्तिः। तुः द्वितीये नी धातोः घन् प्रत्ययाद् एव। उचितो न्यायः। यद्यपि धर्मः एव न्यायः न्यायः एव धर्मः, तथापि व्यवहारे उचितः, न्यायोचितम्, नीतिः, युक्तिश्चैतादृशाः अर्था अपि गृह्यन्ते। यथा एकस्मिन् केन्द्रे बहवः पन्थानः आगत्य विलीयन्ते, तथैवात्र स्थितिः। परिधौ सर्वे सत्यस्य धर्मस्यैव वाचकाः। न्यायस्य अर्थ जयोपायोऽपि गृहीतः। अतः न्याये जयोऽपि। अनेन ज्ञायते यद् न्यायालयीये सन्दर्भे थर्मस्य उपासना-पद्धतिं विहाय न्याय एव ध्येयः। अतः यतो धर्मः ततो जयः इत्यस्य अभिप्रायः यतो न्यायः ततो जयः। सत्यमेव जयते, नानृतम् इत्यस्य तात्पर्यमपि इदमेव। कारणं यद् न्याये सत्यं तिष्ठति, तु अन्याये असत्यमिति। धर्मे सत्यं सत्ये धर्मः वेदितव्यौ। तद्यथा-
न सा सभा यत्र न सन्ति वृद्धाः वृद्धा न ते ये न वदन्ति सत्यम्।
नासौ धर्मो यत्र नो सत्यमस्ति नो तत् सत्यं यच्छलेनानुविद्धम्।।

(गरुड-पुराणम्- १.११५.५२)
श्रीकृष्णः सदैव सत्यस्य धर्मस्य च पक्षधरः। बाल्यादेव कंसकृत-प्रताडनाम् असहत। गोकुलागतान् सर्वान् रिपून् न्यायेन अमारयत्। इन्द्रादीनां च दर्पभंगम् अकरोत्, शतं यावत् शिशुपालस्य अपभाषणं श्रुत्वा मर्यादाम् अपालयत्। शते पारे याते एव तं परलोकम् अगमयत्।
कौरव-पाण्डवेषु या स्थितिः आसीत्, तां सः सर्व जानीते स्म।
दुर्योधनः तेषु दुष्टतमः। तस्य पिता महाराजः अन्धोऽपि पुत्रवशी सन् महान्थः। सर्वे पाण्डवाः सदाचारिणः। अजातशत्रुः इत्याख्यः ज्येष्ठः युधिष्ठिरः साक्षात् धर्मः धर्मराजः चेति नाम्ना ख्यातः। तं आभीम-सहदेव- प्रभृतयः अनुजाः पितेव आद्रियन्ते स्म। न कोऽपि अक्षमः, तथापि कौरवान् कुटुम्बिनं मत्वा, ज्येष्ठस्य भ्रातुः आदेशं च शिरोधृत्वा न तैः बलप्रयोगः कृतः। द्रौपद्याः वस्त्रहरणेऽपि ते मौनम् अधारयन्। वनवासम् अज्ञातवासं च असहन्त। सर्वाः घटनाः श्रीकृष्णेन विदिताः। शान्तिदूते भूतेऽपि वासुदेवे दुर्योधनः दुष्टतामेव प्रदर्शितवान्, अवहेलनैव कृता तेन।
कृष्णस्य जीवनस्य उद्देश्यमेव धर्म संस्थापनम्। स अधर्मरूपिणः कौरवान् दण्डयितुं धर्मरूपिणः पाण्डवान् पुरस्कर्तुम् एव अर्जुनस्य सारथ्यं स्वीकृतवान्। तन्नीतिम् अनुसृत्यैव पाण्डवाः विजयं प्राप्तवन्तः।
वस्तुतः सर्वे पाण्डुपुत्राः धीराः उत्साहिताः महावीराः युद्ध-विशारदाः राजनीति-प्रवीणाश्चासन्, तथापि तेषाम् उपरि सर्वेषां रोगाणां महौषथ-रूपस्य वासुदेवस्य वरदहस्तौ अपि आस्ताम्। अनेन यथा सर्वसमर्थं देव- गुरु- पितृ- आतृ- मित्रादीन् निकषा प्राप्य उत्साहो वर्धते, तथैव कृष्णस्य संगतौ पाण्डवानां बलम् अतिशयेन वर्धितम्। इदं कौरवाः अपि जानन्ति स्म। तेषां भीतिः विशेषेण कृष्णार्जुनाभ्यामेव। कृष्णार्जुनीया संगतिः सर्वाधिका ख्याता। इमौ नरनारायणावपि। अनयोः नरोऽर्जुनः नारायणः कृष्णश्च।
गीतायामपि पश्यामो यद् युद्धभूमिं योद्धुम् उपगतोऽपि सर्वश्रेष्ठो योद्धा अर्जुनो मोहं गतः। प्रथमे मेलने ध्वजभंगः इवेयं स्थितिः। स एव अर्जुनः विषादं प्राप्तवान्, यस्य वीरतां श्रुत्वा महद्भ्योऽपि महान्तो वीरपुंगवाः क्लैव्यं गच्छन्ति, अथवा शीघ्रमेव वीरगतिं प्राप्नुवन्ति। स एव कौन्तेयः, यः महारणस्य पूर्वमेव मोहगतं ज्येष्ठपाण्डवं धर्मराजम् आश्वासयन् अकथयत्-
एवं राजन् विजानीहि ध्रुवोऽस्माकं रणे जयः। यथा च नारदः प्राहः यतः कृष्णः ततो जयः।।
गुणभूतो जयः कृष्णे पृष्ठतोऽभ्येति माधवम्। तद्यथा विजयः चास्य सन्नतिः चापरो गुणः।।

(भीष्मपर्व-२१.१२-१३)
स एव प्राप्ते युद्धावसरे तत्कृष्णस्य सान्निद्ध्ये सारथ्ये ऽपि मोहगतः। सेनयोः उभयोः मध्ये रथं स्थापय इति श्रीकृष्णं न्यवेदयत्। स यदैवम् अकरोत्, तदा सम्बन्धिनः दृष्ट्वा विषादो ऽधिगतः। सर्वसमर्थोऽपि सन्मित्रं जयात्मकं सारथिरूपं कृष्णं कथयति-
गाण्डीवं संस्रते हस्तात् त्वक् चैव परिवश्झते।
न च शक्नोम्यवस्थातुं अमतीय च मे मनः।।
(गीता- १.३०)
विषादः कं कुतः कदा नेष्यतीति कथनं कठिनम्। परममित्रस्य अर्जुनस्य दुःस्थितिं दृष्ट्वा कृष्णः खिन्नः। किं भविष्यति, यद्ययमेव मुग्धः स्यात्। खिन्नमनाः स तम् उद्बोधयन् भर्त्सयन् च कथयति-
कुतः त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ।।
क्लैव्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते । क्षुद्रं हृदय दौर्बल्यं त्यक्तोत्तिष्ठ परंतप ।।
(गीता-२.२-३)
इयमेव प्रथमा प्रेरणा। अनेनैव श्लोकद्वयेन आहतोऽर्जुनमोहः शैत्येन पिण्डीभूतं घृतमिव सूर्यप्रकाशेन शनैःशनैः गलितः। गलिते मोहे प्राप्ते कर्तव्यज्ञाने च सन् सः कथयति-
नष्टये मोहः स्मृतिः लब्बा त्वठासादाङ् मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।
(गीता-१८.७३)
अनेन कारणेन सञ्जयः सम्यग् विचार्य कथयति-
यत्र योगेश्वरः कृष्णो यत्र पार्यो धनुर्धरः।
तत्र श्रीः विजयो भूतिः ध्रुवा नीतिः मतिः मम।।
(गीता-१८.७८)
यदि तस्मिन् महायुद्धे श्रीकृष्णो न अभविष्यत्, तु युद्धोऽपि नाभविष्यत्। पुनः युद्धो नाभविष्यत्, तु पाण्डवाः कौरवाणाम् अत्याचारं सहमाना एव जीवन्तो ऽभविष्यन्। अतः जयस्य हेतुः कृष्णः। अतएव; यतो धर्मः ततः कृष्णो यतः कृष्णः ततो जयः इति सत्योक्तिः।