दिल्ली जलसङ्कटम् राजधान्यां नव-दिल्ल्यां जल-सङ्कटम् अनवरतं प्रवर्तते। टैंकर इति जल-सञ्चय-वाहनेभ्यः जल-वितरण-केन्द्रेषु जनानां सुदीर्घ-पक्तयो विद्यन्ते । अनेन कारणेन दिल्ल्यां स्थाने-स्थाने विरोध-प्रदर्शनं राजनीतिकोहापोहश्व दृश्यन्ते । नव-दिल्ली नगर पालिका परिषद्-क्षेत्रम् अपि जल-नैयून्य-प्रभावितं वर्तते। परिषदः उपाध्यक्षः सतीश उपाध्यायः वार्ताहरैः सह संवादे दिल्ली- प्रशासनं विरुध्य टैंकर-टेंडर-माफिया इत्येतयोः संरक्षणस्य भ्रष्टाचारस्य च आरोपान् आरोपयत्। अमुना जनाः आवासीय-प्रखण्डाः च जलस्य विवेक-पूर्णोपयोगाय निवेदिताः। अत्रान्तरे दिल्ली- सर्वकारेण आरोपितं यत् हरियाणायाः भाजपा-प्रशासनं राजनीतिक-र्विसङ्गति-वशात् दिल्ल्याः जलापूर्तिम् अवरोधयति। दिल्ल्याः जल-मन्त्री आतिशी वार्ताहरान् सम्बोधयन्ती उक्तवती यत् विषयेस्मिन् प्रधानमन्त्रिणे पत्रं विलिख्य शीघ्रं हस्तक्षेपस्य अध्यर्थना कृता। येन अस्याः समस्याः समाधानं भवेत्।











