चतुर्दश श्रावणीय सस्यानां न्यूनतमसमर्थनमूल्यं वर्धयितुं, महाराष्ट्र वाघवनबन्दरस्य विकासं कर्तुं, गुजराततमिलनाडुषु च प्रथमं अपतटीयपवनस्थानकं विकसितुं च सर्वकारेण निर्णयः कृतः अस्ति। वाराणसीविमानस्थानकस्य विकासाय, राष्ट्रियन्यायिकमूलसंरचनासम्वर्धनयोजनाय च सर्वकारेण निर्णयाः कृताः सन्ति। एतस्मिन् विषये नवदिल्ल्यां वार्ताहरान् सम्बोधयन् सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः अवदत् यत्, मन्त्रिमण्डलस्य सत्रे सर्वकारेण पञ्च प्रमुखाः निर्णयाः कृताः। निर्णयानां विषये प्रवदन् श्री वैष्णव अवदत् यत् मन्त्रिमण्डलेन चतुर्विंशत्यधिक द्विसहस्र-पञ्चविंशत्यधिक द्विसहस्रतम वर्षस्य विपणनस्य ऋतोः कृते चतुर्दश श्रावणीय सस्यानां न्यूनतमसमर्थनमूल्यानां (एमo एसo पीo ) अनुमोदनं कृतम्। सः अवदत् यत्, धान्य, कपास, प्रियङ्गु, द्विदल, तैलबीजानां कृते एमएसपी इत्यस्य महती वृद्धिः कृषकाणां लाभाय भविष्यति। मन्त्री उक्तवान् यत्, प्रधानमन्त्रिणः नरेन्द्रमोदीनः तृतीयः कार्यकालः अतीव महत्त्वपूर्णः अस्ति यतः एतत् कृषकाणां हिताय अनेकनिर्णयानां माध्यमेन परिवर्तनन सह निरन्तरतायां केन्द्रितः अस्ति। सः अवदत्, सर्वकारः देशे सर्वत्र द्वि लक्षं यावत् भण्डाराणां निर्माणार्थं कार्यं कुर्वन् अस्ति। वैष्णवमहोदयः अवदत् यत्, महाराष्ट्रस्य वाधवननगरे सर्वकारेण ग्रीनफील्ड्- जलपोतस्थानकस्य विकासस्य निर्णयः कृतः। सः अवदत् यत्, अस्य जलपोतस्थानकस्य निर्माणे षड् सप्ततिः सहस्राधिक कोटिरूप्यकाणां व्ययं भविष्यति तथा च समाप्तेः अनन्तरं एतत् विश्वस्य शीर्ष दश जलपोतस्थानकेषु अन्यतमं भविष्यति।
स्ः अवदत् यत्, एतत् जलपोतस्थानकं आगामिषु वर्षेषु प्रायः द्वादश लक्ष वृत्यवसरान् जनयिष्यति। वैष्णवमहोदयः अवदत् यत्, देशे नवीकरणीय ऊर्जाक्षमतां वर्धयितुं सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति तथा च अस्मिन् दिशि प्रथमानि अपतटीयपवनस्थानकानि विकसितुं सर्वकारेण निर्णयः कृतः। सः अवदत् यत्, गुजरात-तमिलनाडु-राज्ययोः पञ्च शतं यावत् मेगा-वाट्-क्षमतायुतौ परियोजनाद्वयं आरप्स्यते। मन्त्रिणा इदमपि सूचितं यत् मन्त्रिमण्डलेन वाराणस्याः लालबहादुरशास्त्री-अन्तर्राष्ट्रीयविमानस्थानकस्य विकासाय ऊनषष्ठ्यधिक अष्टशतोत्तर द्विसहस्र कोटिरूप्यकाणां व्ययेन अनुमोदनं कृतम् अस्ति। अन्यस्य निर्णयस्य विषये वदन् वैष्णवमहोदयः अवदत् यत् मन्त्रिमण्डलेन राष्ट्रियन्यायिकमूलसंरचनासम्वर्धनयोजनायाः अनुमोदनं कृतम् यस्य अन्तर्गतं राष्ट्रियन्यायिकविज्ञान विश्वविद्यालस्य परिसरात बहिः केन्द्रीय न्यायिकविज्ञान प्रयोगशालाः च देशे सर्वत्र स्थापिताः भविष्यन्ति।











