राजा कश्चन दयालुः बालः। काचित् विद्यालयस्य प्रदर्शनशालायाः विहारयात्रा तस्य जीवनस्य अमूल्यघटना संवृत्ता।
राजा नामकः कश्चन बालकः आसीत्। सः मात्रा सह लघुगृहे निवसति स्म ।
एकस्मिन् दिने विद्यालये शिक्षका अवदत् यत् “वयं प्रदर्शनशालां द्रष्टुं गमिष्यामः” इति।
विहारयात्रायाः दिने राज्ञः माता एकस्मिन् स्यूते जलकूपीं, मध्यानभोजनं च संस्थाप्य दत्तवती।
सा तस्मै 20 रूप्याकाणि अपि दत्त्वा “एतस्य धनस्य अत्यावश्यकतायां सत्यामेव उपयोगः करणीयः। मधुरादीनां क्रयणार्थं न” इत्यादिष्टवती। ओमित्यङ्गीकृतवान् राजा ।
सः यदा विद्यालयस्य बसयाने उपविष्टवान्। तदा मातुः वचनानि एव स्मृतवान्।
प्रदर्शनशालायाम् अन्यैः बालैः सह क्रीडित्वा अत्यन्तं हर्षमनुभूतवान्।
घण्टात्रयानन्तरं यदा प्रदर्शशालातः प्रतिगमनावसरे शिथिलं स्व पादरक्षासूत्रं बद्ध्वा उत्थानावसरे अधः पतन्तं कञ्चन वृद्धं दृष्टवान् ।
“रक्षतु मां रक्षतु” इति वृद्धस्य आह्वानं श्रुत्वा वृद्धस्य दिशि धावितवान्। तस्य कुशलं पृष्ट्वा समीपस्थात् आपणात् जलकूपीं क्रीत्वा वृद्धाय दत्तवान्। वृद्धः मन्दं मन्दं जलं पीत्त्वा राज्ञे धन्यवादान् समर्पितवान्। राजा शीघ्रं स्व विद्यालयबस्यानदिशि प्रधावितवान्।
भाग्यवशात् बस् यानं तत्रैव आसीत्। शिक्षिका महताकोपेन “कुत्रगतस्सत्वम्? वयं तव प्रतीक्षायामेव स्मः” इति भर्त्सितवती। राजा गृहं गत्त्वा मात्रे सर्वं वृत्तान्तं श्रावितवान्। माता पुत्रस्य कृत्येन अत्यन्तम् आनन्दमनुभूतवती।
कतिचन मासानामनन्तरं राज्ञः विद्यालये कश्चन महोत्सवः समायोजितः आसीत्। सः मातरं महोत्सवं प्रति आगन्तुं प्रार्थितवान्।
अपरस्मिन् दिने सः मात्रा सह महोत्सवं प्रति गतवान्। मित्रैः सह बहु क्रीडितवान्। आनन्दञ्चानुभूतवान्। तावता पुरस्कारवितरणस्य समयः आगतः आसीत् ।
वेदिकातः राज्ञः नाम पञ्चवारम् आहूतमासीत् अतः त्वरया आगन्तुं राज्ञः माता वदन्ती आसीत्।
राजा पुरस्कारं स्वीकर्तुं वेदिकामुभिमुखीकृत्य गच्छन् कञ्चन ज्ञातपूर्वं वृद्धं पुरुषं वेदिकायाम् अवलोकितवान्।
परन्तु सः तं वृद्धं स्मर्तुं न शक्तवान्।
पुरस्कारस्य स्वीकरणावसरे “माम् अभिज्ञातवान् वा?” इति पृष्टवान् सः वृद्धः।
राजा ‘न इति’ शिरः आलोडितवान् ।
“त्वं मां रक्षितवान् किल” इत्युक्तवान् सः वृद्धः।
तदा राजा तम् अभिज्ञातवान्। “कथमसि त्वम्?” इत्यस्य वृद्धस्य प्रश्नस्य “अहं कुशलीति” समादत्तवान् राजा।
“त्वम् लघुबालस्सन् उत्तमः दयालुः च।” इति उक्त्वा बृहत्तमजयस्तम्भं पुरस्काररूपेण यच्छन् “अत्यन्तं कृपालुः” इत्युक्तवान्।
“अहं तव आवश्यकतायां सत्यां यदा कदापि वा तव सहाय्यं कर्तुमिच्छामि। कृपया कार्यक्रमानन्तरं मात्रा सह आगत्य मां मिलतु।” इत्युक्तवान् सः वृद्धः।
इत्येतानि वचनानि शृत्वा राजा अत्यन्तं हर्षमनुभूतवान्। माता तु महान्तं अभिमानमनुभूतवती ।











