कबीरजयन्ती अस्मिन् वर्षे जूनमासस्य २२ दिनाङ्के अस्ति।
कबीरः कश्चन अध्यात्मकविः भारतीयऋषिः च। मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति। कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत्। किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत्। क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः नीरु महम्मदीयेन तन्तुवायेन पालितः। बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान्। कबीरस्य पत्न्याः नाम लोई इत्यासीत्। जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान्। भारतदेशे कबीरदासजयन्ती महोत्सवं जूनमासे आचरन्ति।
काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत्। गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः। महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम्। तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि (Steps) अवतरन् आसीत्। तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च। आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत्। अधः दृष्टवता तेन बालः कबीरः दृष्टः। बालस्य लघुहस्ते अराबिक्-भाषया ‘कबीरः’ इति लिखितं तेन अवलोकितम्। सः कबीरं पुत्रं शिष्यं (Disciple) च भावयन् स्वस्य आश्रमं प्रति अनयत्। एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च। हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म।
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन्। कबीरदासः भक्तिनटनां कटुशब्दैः (Harsh words) निन्दितवान्। स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान्। तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः।











