संसदः वित्तसंकल्पनासत्रस्य आरम्भः अस्य मासस्य द्वाविंशति दिनाङ्कात् भविष्यति। संसदीयकार्याणां मन्त्री किरेन रिजिजुः एकस्मिन् सामाजिकान्तर्जालीय सन्देश माध्यमेन सूचितवान् यत् सत्रं अगस्त मासस्य द्वादश दिनांकपर्यन्तं निरन्तरं प्रचलिष्यति। सः अवदत्, चतुर्विंशत्यधिक द्विसहस्र पञ्चविंशत्यधिक द्विसहस्र तम वर्षस्य केन्द्रीय वित्तसंकल्पनापत्रं जुलाई त्रयोविंशति दिनाङ्के लोकसभायां प्रस्तुतं भविष्यति। श्रीरिजिजुः अवदत् यत्, राष्ट्रपतिः द्रौपदी मुर्मू भारतसर्वकारस्य अनुशंसया वित्तसंकल्पनासत्राय संसदः द्वयोः सदनयोः आह्वानस्य प्रस्तावस्य अनुमोदनं कृतवति। संसदीयकार्याणां राज्यमन्त्री अर्जुनराममेघवालः दृष्यांकन-माध्यमेन अवदत् यत् आर्थिकसर्वक्षणप्रतिवेदनं जुलाई मासस्य द्वाविंशतिः दिनाङ्के प्रस्तुतं भविष्यति। नरेन्द्रमोदीसर्वकारस्य तृतीयकार्यकालावधौ प्रस्तुतं प्रथमं वित्तसंकल्पनापत्रं भविष्यति। वित्तमन्त्री अर्थशास्त्रज्ञैः, वित्त-पूञ्जी-बाजार-विशेषज्ञैः, उद्योग-संस्थाभिः च सह बजट-पूर्व-परामर्शार्थं पूर्वमेव मिलितवान् अस्ति । सीतारमणः जूनमासस्य अन्ते विभिन्नराज्यानां, केन्द्रशासितप्रदेशानां च वित्तमन्त्रिभिः सह आगामिकेन्द्रीयबजटस्य सुझावं ग्रहीतुं सभां अपि अध्यक्षतां कृतवान्।











