व्यासपूर्णिमा / गुरुपूर्णिमा

भारतीयसंस्कृत्यां गुरोरधिष्ठानमदवितीयमिति मन्यते । भारतेऽस्मिन् प्राचीनतमकालात् सर्वैः शिष्यैः गुरुं प्रति सादरं भाति प्रदर्शिता । धौम्यशिष्य आरुणिः, द्रोणाचार्यशिष्य एकलव्यः, रामकृष्णपरमहंसशिष्यवरः विवेकानन्द इत्यादयः गुरुभक्तेः त्यागस्य च श्रेष्ठादर्शा आसन् । अतः प्रतिवर्षम् आषाढपूर्णिमायां सश्रद्धं गुरुपूजनं कर्तव्यमिति प्राचीना परम्परा ।

आषाढशुदधपूर्णिमा गुरुपूर्णिमा व्यासपूर्णिमा वेति कथ्यते । विशालबदधिः श्रीव्यासोऽतीव विद्वान् सर्वश्रेष्ठ आचार्य आसीत् । पुरा किल अध्ययनार्थम् अतिविशालः एक एव वेदराशिरासीत् । किन्तु मानवानामल्पायुः परिमितबदधिसामर्थ्थं चावलोक्य श्रीव्यासो वेदराशिं विभज्य एकैकं वेदराशिं शिष्यमेकैकम् अग्राहयद्, वेदसंरक्षणं चाकरोत् । भगवता श्रीव्यासेनानेन आदौ महाभारतं लिखितं, पश्चादष्टादश पुराणानि रचितानि । सामान्यजनानां मनः शान्त्यर्थं भागवतं चापि विरचितमनेन । श्रीव्यासस्य विपुलवाङ्म्यलेखनादेव ’व्यासोच्छिष्टं जगत् सर्वम्’ इति प्रख्याता लोकोक्तिर्लोकेषु । व्यासमहर्षिर्विशालं लेखनविस्तारं, अविरतं दीर्धेद्योगं, प्रगाढं प्राण्डित्यं च वीक्ष्य विस्मितपण्डितास्तं ‘जगदगुरुः’ इत्यमन्यन्त । पराशर्स्य पुत्रोऽयं यमुनाद्वीपे जनिमलभत, बदरिकावनं च गत्वा अतपत तपः । अतोऽयं पाराशरो बादरायणो वेद्व्यासः द्वैपायनश्चेत्यादिभिर्वैविधैः नामभिः विख्यातः । अत एव गुरुपूर्णिमावसरे श्रीव्यासप्रतिमापूजनं, गुरुप्रतीकं ग्रन्थपूजनं चापि कुर्वन्ति । केचित् संवत्सरस्य पञ्चकृत्वः वैशाखाषाढकार्तीकपौषमाघमासेष्वपि श्रीव्यासपूजनं विदधति । अध्ययनाध्यापनक्लर्मणि नित्यं निमग्नेषु ज्ञान्मन्दिरेष्वधुना बहवः छात्राः प्रत्यहं ज्ञानग्रहणं क्रुर्वन्ति । आषाढपूर्णिमवसरे तैर्विद्यार्थिभिर्भक्त्यादरेण च ‘तेजस्वि नावधीतम्स्तु’ इति संप्रार्थ्य् गुरुरूजनं कर्तव्यमिति उपदिश्यते ।
व्यासपूर्णिमा दिनाचरणे व्यासमहर्षेः गौरवेण पूजदिकं प्रचलति । वेदपुराण महाभारतादीनां चर्चाः भवन्ति । सर्वे व्यासमहर्षिं विष्णुरुपेण पूजयन्ति ।

‘ यतो धर्मः ततो जयः’ इति महाभारतस्य सारः । राजा कालस्य कारणं, कुर्यादाहारं प्राणसन्धारणार्थं ‘वृत्तं यत्ने न सम्रक्षेत् वित्तं आयाति याति च ‘श्रीणाः नराः निष्करुणाः भवन्ति’ बुभुक्षितः किं नकरोति पापम् इत्यादि वाक्यानि अतीव सुन्दराणि दिन वचनभुक्तानि सन्ति ।
धर्मे चार्थे च कामे च मोक्षे च पुरुषर्षभ् ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥