सुखिया-मातुलाय गीतानि रोचन्ते। सः एकस्मिन् दिने गीतं गायन् पार्श्वस्थं ग्रामं प्रति प्रस्थितवान्। मार्गे विचित्रं घटितम्। किं स्यात् तत्?
मे प्रयबालाः! अहं मधुरगीतगानकोविदं सुखिया-मातुलस्य कथां श्रावयामि। श्रृण्वन्तु। रात्रौ निद्रातः पूर्व पितामह्या चन्दमामगीतानि गापयन्तु। अस्तु। अस्माकं देशे राजस्थानजनपदे बितौना इति कश्चन ग्रामः विद्यते। तस्मिन् ग्रामे सुखिया नामकः कश्चन निवसति स्म। सुखिया गीतानि मुधुरतया गायन् आसीत्। बालाः ज्येष्ठाः तं सुखिया-मातुलः इति आह्वयन्तः आसन्। तस्मिन् ग्रामे यः कोऽपि उत्सवः भवतु। सुखिया-मातुलः गीतम् अवश्यं गायेदेव। पार्श्वस्थे झतौरा नामके ग्रामे सुखिया-मातुलं गीतगानार्थम् आहूतवन्तः आसन्। अस्तु इति सुखिया-मातुलः प्रस्थितवान्
स्वस्मश्रु हस्तेन वलयाकारेण भ्रामयन् अपि च हसन् “मेघाः मेघाः आयान्तु मेघाः। वलयाकारेण भ्रमन्तु मेघाः।” इति गायन् नर्तनम् आरब्धवान्
तथा नाट्यं कुर्वन् धुप्, धुप्, धुप्, धुप् इति कञ्चन शब्दं श्रुतवान्। पृष्टतः भ्रमित्वा अवलोकनेन एका महती राक्षसगोधिका तस्य गीतस्य अनुसारं नाट्यं कुर्वती दृष्टा। सुखया-मातुलः अपि तां दृष्ट्वा नर्तनम् आरब्धवान्। “मेघाः मेघाः पतन्तु मेघाः। मेघाः मेघाः वर्षन्तु मेघाः। क्रीडामो वयं नृत्यामो वयं नन्दामो पतन्तु” इति सुखिया-मातुलः अपि च राक्षसगोधिका द्वावपि गायन्तौ नर्तन्तौ आस्ताम्।
तस्य गीतेन वर्षादेवता प्रसन्ना अभवत्। सपदि कृष्णमेघाच्छादनमभवत्। महती वृष्टिश्चाभवत्। सुखिया-मातुलः राक्षसागोधिका वर्षायाम् आर्द्रौ सन्तौ नाट्यं कुर्वन्तौ आस्ताम्। “वार्षायां नर्तनं महतः आह्लादाय” इत्युक्तवान् सुखिया-मातुलः।
सुखिया मातुलस्य पार्श्वे लघुछत्रमेकमासीत्। तं प्रसार्य द्वावपि वर्षायां द्रवन्तौ झतौराग्रामात् आगच्छन्तं पक्ववटीगन्धम् जिघ्रन्तौ झतौरा ग्रामं प्रति प्रस्थितवन्तौ। वर्षादेवतायै धन्यवादमपि उक्तवन्तौ
बालाः! कथा सम्यगस्ति किल। गानेभ्यः जन्तवः अपि नृत्यन्ति। स्वीयगृहे बालशुनकः स्यात्तर्हि लघुगीतं गायन्तु। सः कथं पृच्छम् आलोडयन् कथं नृत्यतीति दृष्ट्य्वा छायाचित्रमेकं कर्षयित्वा मह्यं प्रेषयन्तु।











