प्रतिमायां सजीवः देवः (बाल कथा)

शिवकुमारः आ गतेभ्यः विंशतिवर्षेभ्यः देहल्याः कस्मिंश्चित् कार्यालये लिपिकार- रूपेण कार्यं कुर्वन् आसीत् । एतावता अपि कार्ये तेन पदोन्नतिः न प्राप्ता आसीत् । तस्य पत्नी तदीयम् असामर्थ्यम् उपहसति स्म । प्रतिवेशिनः अपि तं हीनभावनया पश्यन्ति स्म । एतस्मात् नितरां जुगुप्सितः सः कदाचित् सहोद्योगिनं कञ्चित् उपसर्प्य विषयेऽस्मिन् मार्गदर्शनं प्रार्थितवान् । सः सहोद्योगी अवदत् – “भवान् विपणिं गत्वा सुन्दरीं काञ्चित् राम- प्रतिमाम् आनीय गृहे परिशुद्धे स्थले प्रतिष्ठाप्य पूजां करोतु । श्रीरामस्य पुरतः सदा गन्धवर्तिकां ज्वालयतु । ‘ओम् श्रीरामाय नमः’ इति भक्त्या जपन् १००८ पुष्पाणि तस्मै अर्पयतु । अन्ते कर्पूरं प्रज्वाल्य नीराजनं करोतु । वर्षाभ्यन्तरे श्रीरामः भवन्तम् अभीष्टदानेन अनुग्रहीष्यति” इति ।
शिवकुमारः अनन्तरदिने एव विपणिं गत्वा राम- प्रतिमाम् आनीय भक्त्या पूजनम् आरब्धवान् । वर्षात् अधिकः कालः अतीतः । किन्तु तेन न किमपि फलं प्राप्तम् ।
असन्तुष्टः सः कार्यालये अन्यं सहोद्योगिनं स्वस्य समस्यां निवेद्य मार्गदर्शनं प्रार्थितवान् । अपरः सहोद्योगी अवदत् – “श्रीरामः बहु प्राचीने काले आसीत् । अतः सः अप्रस्तुतः । श्रीकृष्णः तु अर्वाचीनः अस्ति । अतः भवान् अवदत् श्रीरामः बहु प्राचीने काले आसीत् । अतः सः अप्रस्तुतः । श्रीकृष्णः तु अर्वाचीनः अस्ति । अतः भवान् रामस्य प्रतिमाम् अपसार्य श्रीकृष्णस्य प्रतिमां संस्थाप्य पूजां करोतु । अचिरात् एव भवान् सफलः भविष्यति” इति । शिवकुमारः रामस्य प्रतिमां वातायनस्य पार्श्वे उत्पीठिकायाः उपरि प्रतिष्ठापितवान् आसीत् । अधुना सः रामस्य प्रतिमाम् अधः भूमौ संस्थाप्य तस्मिन् स्थले कृष्णस्य प्रतिमां प्रतिष्ठापितवान् ।
रामस्य प्रतिमाम् अपसार्य श्रीकृष्णस्य प्रतिमां संस्थाप्य पूजां करोतु । अचिरात् एव भवान् सफलः भविष्यति’ इति । शिवकुमारः रामस्य प्रतिमां वातायनस्य पार्श्वे उत्पीठिकायाः उपरि प्रतिष्ठापितवान् आसीत् । अधुना सः रामस्य प्रतिमाम् अधः भूमौ संस्थाप्य तस्मिन् स्थले कृष्णस्य प्रतिमां प्रतिष्ठापितवान् ।
ततः सः बह्वीः धूमवर्तिकाः प्रज्वाल्य पूजाम् आरब्धवान् । तेन अवलोकितं यत् वायोः कारणतः धूमवर्तिकानां सुगन्धः भूमौ पतितस्य रामस्य दिशि एव गच्छति, न तु कृष्णस्य दिशि इति । अनुग्रहम् अकृतवता रामेण सुगन्धसुखम् अनुभूयते इत्येतत् सः सुतरां न असहत । सः अन्तः गत्वा कार्पासखण्डं किञ्चित् आनीय रामः यथा सुगन्धं न सेवेत तथा रामस्य नासापुटयोः अपूरयत् ।
अपरस्मिन् एव क्षणे सजीवमूर्तिः हसन्मुखः श्रीराम अपरस्मिन् एव क्षणे सजीवमूर्तिः हसन्मुखः श्रीराम- चन्द्रः शिवकुमारस्य पुरतः प्रत्यक्षः जातः । सः शिव- कुमारम् उद्दिश्य – “वत्स, वरः याच्यताम्” इति अवदत् । “आ गतेभ्यः पञ्चदशभ्यः मासेभ्यः अहं भवतः पूजां कुर्वन् अस्मि । किन्तु भवता कदापि दर्शनं न दत्तम् । अहं भवतः पूजां परित्यज्य कृष्णस्य पूजने यदा उद्यतः तदा भवता दर्शनं दीयते किम् ? असूयावशः सन् दर्शनं किं दीयमानम अस्ति भवता ?” इति अपृच्छत् शिवकुमारः ।
तदा भगवान् रामः अवदत् “प्रिय पुत्र, अद्यपर्यन्तम् अहं निर्जीवप्रतिमामात्रम् इति भवता चिन्तितम् आसीत् । अद्य मम नासापुटयोः कार्पासखण्डं पूरयता भवता अहम् अपि भवान् इव सजीवः प्रज्ञावान् जीवी इति अभिज्ञातम् । अतः एव मया दर्शनं दत्तम्” इति ।