अरविन्द केजरीवालः सीएमपदस्य त्यागपत्रं दत्तवान्; विश्वासपात्रं अतिशी तस्य उत्तराधिकारी भवितुं

शीला दीक्षितस्य सुषमास्वराजस्य च अनन्तरं अतिशी दिल्लीनगरस्य तृतीया महिला मुख्यमन्त्री भवति।

आम-आदमी-पार्टिति-दलस्य वरिष्ठनेत्री आतिशी अद्य दिल्ल्याः मुख्यमन्त्रित्वेन शपथम् अग्रहीत्। राजनिवासे आयोजिते शपथग्रहरण-समारोहे उपराज्यपालेन विनय कुमार-सक्सेना-इत्यनेन आतिशी तस्याः मन्त्रिपरिषदः सदस्याः च पदगोपनीयतायै प्रतिज्ञापिताः। राष्ट्रपतिना द्रौपदी-मुर्मु-इत्यनाया शपथ-ग्रहण-दिवसात् आतिशी दिल्ल्याः मुख्यमन्त्रि-रूपेण नियोजिता
अत्रावसरे आतिशीं समेत्य मन्त्रिपरिषदः गोपालर कैलाशगहलोतः सौरभभारद्वाजः इमरानहुसैनः मुकेश अहलावतः च शपथवचनं स्वीकरिष्यन्ति।रविवासरे अरविन्द केजरीवालः दिल्लीनगरस्य मुख्यमन्त्रीपदस्य त्यागपत्रस्य निर्णयं घोषितवान् । सः अवदत् यत् यावत् जनसमूहः तस्य प्रामाणिकताम् न पुष्टयति तावत् सः मुख्यमन्त्रीपदे न उपविशति।
सः कारागारतः बहिः आगत्य “अग्निपरीक्षा” कर्तुं स्वस्य अभिप्रायः अपि अवदत् ।
दिनद्वयानन्तरं दिल्ल्याः मुख्यमन्त्रिणा अरविन्दकेजरीवालेन मुख्यमन्त्री पदात् त्यागपत्रं प्रदत्तम्। असौ दिल्ल्याः उपराज्यपालं वी.के.सक्सेना वर्यं सम्मिल्य नैजं त्यागपत्रं समार्पयत्। अथ च अत्रावसरे आम आदमी पार्टीति दलेन घोषणा कृता यत् दलस्य वरिष्ठा नेत्री आतिशी दिल्ल्याः नवीना मुख्यमन्त्री भविष्यति। नव दिल्ल्याम् आप-दलस्य विधायकानाम् उपवेशनस्य अवसरे एषा आप-विधायक दलस्य नेत्री प्रचिता अस्ति। आतिशी दिल्लीनगरस्य मुख्यमन्त्रीपदं तृतीया महिला भवति।