वानरजनितसङ्क्रमणात् केरलराज्ये अष्टत्रिंशद्वर्षीयः एकः अन्यः अपि युवकः संक्रमितो जातः। सुत्रानुसारि असौ एकस्मिन् चिकित्सालये उपचाराधीनो वर्तते। अत्रावधौ राज्यस्वास्थ्य मन्त्री वीना जॉर्जः स्थितिं समीक्षितुं तिरुवनन्तपुरे एक उच्चस्तरीयोपवशेनं समाहूतवती। स्वास्थ्यविभागेन संक्रमितजनानां सम्पर्कसूची निर्मिता अपि च निवारकोपायाः प्रबलीकृताः संक्रमणमिदं नैव प्रसारितम इति मनसिनिधाय जनाः संचेतिता भवेयुरिति। प्रशासनेन राज्यस्य सर्वेषु चतुर्दशजनपदेशेषु पृथगावाससौविध्यानि संस्थापितानि । अवधेयं वर्तते यत् अस्य मासस्य अष्टादश दिनाङ्के मलप्पुरमजनपदस्य मंजेरी- चिकित्सकीय-महाविद्यालये एकस्मिन् जने अस्य संक्रमणस्य पुष्टिः जाता। विश्वस्वास्थ्य-सङ्घटनेन वानरजनित-सङ्क्रमण एम. पॉक्स इति अन्ताराष्ट्रिय-चिन्तायाः सार्वजनिक-स्वास्थ्य-आपात्कालः घोषित।











