विदेशमन्त्री डॉ. एस् जयशङ्करः पाकिस्तानदेशस्य इस्लामाबादनगरे शङ्घाई-सहयोग-सङ्घटनस्य शासनाध्यक्षाणां परिषदः त्रयोविंशतितमम् उपवेशनं सम्बोधयन् उक्तवान् यत् अर्थव्यवस्था-विकासयो कृते शान्तिः स्थिरता च आवश्के स्तः। अनेन प्रत्यादिष्टं यत् सीनि प्रचल्यमानाः आतङ्कवाद-उग्रवाद-पृथक्कवाद- गतिविधयः व्यापारं जनानां मध्ये संवर्धमान-सम्पर्क च अवरोधयन्ति। विदेशमन्त्रिणा अग्रे समुदीरितं यत् ऋतुदशायाः प्रतिकूल-परिस्थितयः आपूर्ति-श्रृङ्खलानाम् अनिश्चितताः वित्तीय अनियन्त्रणं च समग्रविश्वं पूर्वमेव प्रभावयन्ति। असौ पुनः प्रावोचत् यत् देशयोर्मध्ये सहयोगः पारस्परिक- सम्मान-सम्प्रभुता-भौगोलिक अखण्डतायाश्च मान्यतायाम् आधारितो भवेदिति। श्रीजयशङ्करः शङ्घाई-सहयोग-सङ्घटन-व्यवस्थायाम् भारतेन विहित-प्रयासानां महत्त्वमपि प्रतिपादितवान्।











