प्रशासनेन मेधावि-छात्रेभ्यः वित्तीय-साहाय्यं प्रदातुं पीएम्-विद्यालक्ष्मी-योजनायै स्वीकृतिः प्रदत्ता।

प्रशासनेन मेधावि-छात्रेभ्यः वित्तीय-साहाय्यं प्रदातुं पीएम्-विद्यालक्ष्मी-योजनायै स्वीकृतिः प्रदत्ता। मन्त्रिमण्डलोपवेशने गृहीत-निर्णयानां विषये अद्य नवदिल्ल्यां वार्ताहरैः साकं सम्भाषमाणः सूचनाप्रसारणमन्त्री अश्विनी वैष्णवः सूचितवान् यत् छात्राः उच्चशिक्षाप्राप्तये सरलतया ऋणं प्राप्तुम् अर्हाः भविष्यन्ति । योजनायाः लाभं प्राप्तुं छात्राः एकीकृते आन्तर्जालिक पीएम-विद्यालक्ष्मी इत्यस्मिन् पटले आवेदनं कुर्तुं शक्ष्यन्ति।