लोकगायिकायाः शारदासिन्हा इत्यस्याः गतरात्रौ नवीदिल्लीनगरे निधनं जातम्।

प्रसिद्धायाः लोकगायिकायाः शारदासिन्हा इत्यस्याः निधनं नवीनदिल्लीनगरे जातम् । राष्ट्रपतिः प्रधानमन्त्री च शोकं प्रकटितवन्तौ।
सुप्रसिद्धायाः लोकगायिकायाः शारदासिन्हा इत्यस्याः गतरात्रौ नवीदिल्लीनगरे निधनं जातम्। सा द्विसप्तति वर्षीया आसीत् । सा राष्ट्रियराजधान्याः अखिलभारतीय आयुर्विज्ञानसंस्थायां अन्तिमं श्वासं गृहीतवती। भोजपुरी-मैथिली-लोकगीतानां कृते प्रसिद्धा शारदा सिन्हा पद्मश्री, पद्मभूषण, संगीत नाटक अकादमी आदीभिः पुरस्कारैः सम्मानिता अभवत् ।
राष्ट्रपतिः द्रौपदी मुर्मुः तस्याः निधने दुःखं प्रकटितवती ।