मध्याह्नः सायङ्कालः च गतः। रात्रिः अपि आगता। तथापि विश्वावसुः नेत्रे न उन्मीलितवान्। ललिता निद्राहारम् अपि विस्मृत्य तस्य पार्श्वे एव उपविष्टवती। अनन्तरदिने उषःकाले विश्वावसुः मन्दम् उत्थाय गुहां प्रति प्रस्थितवान्। ललिता अन्ये बान्धवाः च तम् अनुसृतवन्तः। गुहां गतः विश्वावसुः मूर्तेः शिलापीठम् आलिङ्ग्य उच्चैः रोदनं करोति। यावत् निवेदितं चेदपि न उत्तिष्ठति। अन्ये किङ्कर्तव्यतामूढाः सन्तः मौनं स्थितवन्तः। मध्याह्नसमये कश्चन आगत्य दीर्घ धावन् शबरयुवकः निःश्वसन्- “पर्वतमार्गेण केचन आगच्छन्तः सन्ति। तेषु महाराजः अपि अस्ति। कस्यापि हस्ते आयुधं न दृश्यते” इति निवेदितवान्। किञ्चित्कालानन्तरम् अपरः कश्चित् आगत्य निवेदितवान्- “विद्यापतिः एव मार्ग प्रदर्शयन्ं तान् आनयन् अस्ति” इति। तत् श्रुत्वा कश्चन मध्यवयस्कः शबरः कोपेन उक्तवान्- “दिव्यमूर्तेः चौर्येण तृप्तिः न जाता इति भाति। सर्वस्वम् अपहर्तुं ते आगच्छन्तः सन्ति” इति। ‘अये! अन्यथा चिन्तनं न उचितम्। तेषु कस्यापि हस्ते आयुधं नास्ति इति श्रुतं खलु? अस्माकं स्वामिनं विश्वावसुं द्रष्टुम् एव आगच्छन्तः स्युः ते” इति उक्तवान् कश्चन शबरवृद्धः। विश्वावसुः मन्दम् उत्थाय गुहायाः पुरतः नमस्कारभङ्ग्या स्थितवान्। राजा तं दूरात् एव दृष्ट्वा हस्तौ प्रसार्य वेगेन अग्रे आगत्य विश्वावसुं प्रीत्या आलिङ्गितवान्। अश्रूणि स्रावयन् सः शबरराजम् उक्तवान्- “महात्मन्! भक्ताग्रेसर! वस्तुतः विग्रहचोरः अहं, न तु विद्यापतिः। मां क्षन्तुम् अर्हति वा भवान्?” इति। विश्वावसोः नेत्राभ्याम् अपि अश्रूणि स्रवन्ति। सः अश्रूणि मार्जयन् राज्ञः उपवेशनार्थं शिलां प्रदर्शितवान्। राजा शिलायाः उपरि उपविश्य- “विश्वावसो, प्रथमं मया उच्यमानं शृणोतु” इति उक्त्वा, कृतम् आलयनिर्माणं, प्रीतीरे स्वप्नसन्देशानुगुणं कृतं पण्डितप्रेषणं, विद्यापतिना कृतं कार्यं च विस्तरेण निवेद्य पुनः उक्तवान्- “विश्वावसो! अद्यावधि सः देवः भवद्वंशीयानां पूजां प्राप्नुवन् आसीत्। ) इतः परं सर्वेषां जनानां पूजा तेन स्वीकरणीया इति दैवेच्छा अस्ति इति भाति। एषा दिव्यमूर्तिः समुद्रात् प्राप्ते दारुखण्डे समीचीनतया योजनीया इति अस्माकं सङ्कल्पः। तदर्थं भवतः अनुज्ञा अपेक्षिता। अस्माभिः स्वप्रयत्नेन यद्यत् शक्यं तत्सर्वं कृतम्। भवतः साहाय्यं विना कार्यसिद्धिः न भविष्यति” इति। अङ्गीकारपूर्वकं शिरः विश्वावसुः चालितवान्। अनन्तरं राजा दारुखण्डप्राप्तिं, तस्य आनयने कृतं प्रयत्नं प्राप्तम् असाफल्यं च निवेद्य- “भवतः उपस्थितौ एव विग्रहस्य प्रतिष्ठापनं भवेत् इति देवेच्छा अस्ति। अतः भवता आलयसमीपम् आगत्य एतत् कार्य निर्विघ्नतया यथा परिसमाप्येत तथा उपकर्तव्यम्” इति प्रार्थितवान्। क्षणकालस्य मौनस्य अनन्तरं विश्वावसुः उक्तवान्- “प्रभो! भवतः आज्ञायाः अनुगुणम् अहं भवता सह आगन्तुं सिद्धः” इति। राजा परमसन्तोषं प्राप्य विश्वावसुं पुनरपि प्रीत्या आलिङ्ग्य पार्श्वे स्थितां ललिताम् उक्तवान्- “वत्से! भवती पतिम् अन्यथा मा चिन्तयतु। महोन्नतस्य कार्यस्य निमित्तं तेन रहस्यं गोपितम्। अनौचित्यं तत्र किमपि अस्ति चेत् सः क्षन्तव्यः भवत्या” इति। तत्रैव स्थितः विद्यापतिः ललिताम् उक्तवान्- “दैवकार्यार्थं मया दोषः कृतः। मां क्षन्तुम् अर्हति भवती। यथा पूर्वं मया उक्तं तथा अचिरात् एव भवतीं राजधानीं नेष्यामि। तावत् सहनग्रा तिष्ठतु” इति। ललिता कटाक्षेण विद्यापतिं दृष्टवती। तस्याः मुखतः वचनानि न निर्गतानि। राजा आत्मना सह मङ्गलद्रव्याणि आनीतानि फलपुष्पवस्त्रादीनि च पितापुत्र्योः पुरतः स्थापितवान्। अनन्तरदिने राजा परिवारेण सह समुद्रतीरं गतवान्। विश्वावसुः नौकया गत्वा तं दारुखण्डं स्पृष्टवान्। तस्य नौकया सहैव दारुखण्डः तीरम् आगतः। राजभटाः महता सन्तोषेण तं दारुखण्डं राजप्रासादं नीतवन्तः। अनन्तरदिने राजा शिल्पिनः आहूय पृष्टवान्- “एतस्मिन् दारुखण्डे कीदृशी मूर्तिः निर्मिता चेत् वरं भवेत्?” इति। तदा शिल्पिनः उक्तवन्तः- “वयं शिलासु देवदेवीनां मूर्तीः निर्मातुं शक्नुमः। किन्तु दारुखण्डे मूर्तिनिर्माणं वयं सर्वथा न जानीमः। अज्ञाते विषये कथं वा मार्गम् उपदिशेम वयम्?” इति। तस्मिन् एव समये तत्र कश्चन वृद्धः आगत्य- “महाराज! भवता निर्मिते आलये बलभद्र – सुभद्रासमेतस्य कृष्णस्य विग्रहः भवति चेत् वरं भवेत्। भगवतः सङ्कल्पः तथा अस्ति। अहं तादृशं विग्रहं दारुखण्डेन निर्माय दातुं सिद्धः अस्मि। किन्तु कश्चन नियमः अस्ति मम। अहं दारुखण्डेन सह प्रकोष्ठं प्रविश्य द्वारपिधानं करिष्यामि। विग्रहनिर्माणकार्यस्य समाप्तेः अनन्तरम् अहम् एव द्वारम् उद्घाटयिष्यामि। एतन्मध्ये कोऽपि मां न आह्वयेत्” इति उक्तवान् । “एवं तर्हि भवतः आहारादीनां का व्यवस्था?” इति पृष्टवान् राजा। “कार्यस्य समाप्तेः अनन्तरम् एव आहारस्य स्वीकारः” इति उक्तवान् वृद्धः। राजा एतत् अङ्गीकृतवान्। राजभवनस्य कश्चन विशालः प्रकोष्ठः वृद्धाय शिल्पिने दत्तः। वृद्धः दारुखण्डेन सह प्रकोष्ठं प्रविश्य द्वारपिधानं कृतवान्। विग्रहनिर्माणकार्यम् आरब्धवान् च। बहिस्तात् काष्ठच्छेदनशब्दः श्रूयते। राज्ञी सदापि काष्ठच्छेदनशब्दं शृण्वती तिष्ठति। कानिचन दिनानि अतीतानि। प्रकोष्ठात् इदानीं शब्दः न श्रूयते। अनन्तरदिने अपि शब्दः न श्रुतः। ‘अन्नपानादिरहितस्य शिल्पिनः गतिः शोचनीया जाता स्यात्’ इति भावयन्ती राज्ञी कृतककुञ्चिकया द्वारम् उद्घाट्य अन्तः गतवती। श्रद्धया विग्रहकार्ये मग्नः शिल्पी राज्ञीं दृष्ट्वा क्षणमात्रेण अदृश्यः जातः। विग्रहस्य परिष्कारकार्यम् इतोऽपि न समाप्तम् आसीत्। तावता एवं कार्यं स्थगितम्। देवशिल्पी विश्वकर्मा एव वृद्धरूपेण आगतः आसीत् इति जनाः भावितवन्तः। राज्ञी स्वस्य दोषार्थं पश्चात्तापम् अनुभूतवती। सर्वं दैवाधीनम् इति वदन् राजा विद्यापतिना आनीतां दिव्यप्रतिमां कृष्णविग्रहस्य अन्तः योजयित्वा बलभद्र-सुभद्रासहितं तं विग्रहं नूतने मन्दिरे शास्त्रोक्तक्रमेण प्रतिष्ठापितवान्। विद्यापतिः तदनन्तरं तत्कुटुम्बीयाः च तस्य विग्रहस्य अर्चकाः जाताः। तस्मात् दिनतः आरभ्य पुरस्थं जगन्नाथमन्दिरं विष्णुक्षेत्रेषु प्रमुखं सत् जगद्विख्यातम् अस्ति।











