वार्ताहरः-डॉ. मूलचन्द्रशुक्लः
रामनगरम्। पीएनजी राजकीय स्नातकोत्तर-महाविद्यालय- रामनगरस्य प्राचार्येण प्रो.एम.सी.पाण्डे वर्येण भारत-नेपाल एनवायरमेण्टल लीडरशिप अवार्ड-2024 इति सम्माननं लब्धम्। एतस्मै अयं विरुदः (अवार्ड) नवम्बरमासस्य 11 दिनाङ्के नेपालस्थकाठमाण्डू नगरे नेपालस्य विदेशमन्त्रिणा प्रदत्तः।प्रो.पाण्डे महोदयाय पर्यावरणसंरक्षणाय वन्यजीवसंरक्षणाय च भारत- नेपालदेशयोः मैत्रीसम्मेलने आयोजकेन “ग्लोबल लीडरशिप फोरम” इत्यनेन सम्माननमिदं पुरस्कृतम्। अस्मिन्नवसरे महाविद्यालयस्य समस्त- प्राध्यापकाः शिक्षणेतरकार्मिकाश्च प्राचार्याय प्रो.एम. सी.पाण्डे वर्याय वर्धापनानि शुभकामनाश्च प्रेषितवन्तः। एतस्मात् पूर्वमपि रामनगर- महाविद्यालयस्य प्राचार्यः प्रो.एम.सी.पाण्डे महोदयः उत्तराखण्ड-सर्वकारद्वारा उच्चशिक्षायामुत्कृष्ट-उल्लेखनीयमवदानाय “भक्तदर्शन” इत्यनेन पुरस्कारेण “प्रिंसिपल ऑफ द ईयर” इत्यनेन पुरस्कारेण च सभाजितः। अयं महात्मा गान्धी राष्ट्रीय ग्रामीण शिक्षा परिषद्,उच्च शिक्षा विभागः,भारत सर्वकार द्वारा “ग्रीन चैम्पियनशिप अवार्ड” इत्यनेन विरुदेन सम्मानितः जातः। सम्प्रत्यपि अयं उत्तर प्रदेश राज्येन “श्री के.एस.अय्यर वाणिज्य गौरव सम्माननम्” इत्यनेन सम्मानेन पुरस्कृतः।











