शठम् प्रति शाठ्यं (बालकथा)

आसित् कलापुरम् नाम किंचन नगरम् । रसिकवरः नाम भूपतिः तत्र शासनम् करोति स्म । यद्यपि सर्वाः कलाः तस्य प्रियाः, तथापि चित्रकलायाम् विशेषानुरागः । विविधदेशेभ्यः कुशलचित्रकाराः तमागच्छन्ति स्म । भूपालः तेभ्यः विपुलम् धनम् यच्छति स्म ।
महिपतेः गुणज्ञतया उदारतया च ते अतीव संतुष्टाः भवन्ति स्म ।
धनलुब्धः नाम तस्य भुपतेः कश्चन द्वारपालः अवर्तत । सः मनसि अकरोत् अहमेव चित्रकारानेतान् नृपसभायाम् प्रवेशयामि । तेनैव ते विपुलम् धनम् विन्दन्ते । तर्हि मयापि तेभ्यः धनम् लब्धव्यम् इति । एवम् विचिंत्य स सर्वान् चित्रकारान् पारितोषिकस्यार्धम् याचितुम् प्रारभत् । केचन स्वेच्छया, केचन अनिच्छया तस्मै धनम् यच्छन्ति स्म, यतः तस्य अनुज्ञाम् विना राजदर्शनम् अशक्यमेवासीत् ।
एकदा चतुरबुद्धिः नाम कश्विद् अद्वितीयः चित्रकारः तम् पार्थिवम् द्रष्टुमैच्छत् । धनलुब्धः तमभणत् “यदि पारितोषिकस्यार्धम् मह्यम् यच्छेः, तर्हि एव त्वाम् राजानम् दर्शयामि” इति । कंचित्कालम् विचार्य चतुरबुद्धिः तमन्वमन्यत् ।
चतुरबुद्धेः अतुलनियम् चित्रम् दृष्ट्वा प्रसन्नः नृपः अभाषत “अहो नयनान्दकारम् ते चित्रम् । किम् पारितोषिक कामयसे ?” इति । चतुरबुद्धिः अगदत् “देव, दशकशाघातान् पारितोषिकत्वेन इच्छामि” इति । चित्रकारस्य विलक्षणया प्रार्थनया चकिताः सर्वे सभाजनाः, विस्मितः नृपः अपि । चित्रकारः वारम् वारम् तदेव पारितोषिकमाचयत । अतः नृपः सिद्धः जातः । तदा चतुरबुद्धिः “क्षणम् तिष्ठतु तिष्ठतु अन्नभवान्” इत्युक्त्वा सभातः निर्गतः द्वारपालेन सह प्रत्यागत्य नृपायाकथयत् “देव, मम पारितोषिकस्यार्धमेतेन I याचितम्, मया प्रतिश्रुतम् च । अतः पञ्च प्रहाराः मह्यम् दातव्याः पञ्च एतस्मै” इति ।
द्वारपालस्य शाव्यम् ज्ञात्वा राजा तमदण्डयत्, चतुरबुद्धये च प्रभूतम् धनमयच्छत् ।