पूर्वोत्तर-परिषदः द्वि-सप्तति तमीये पूर्ण-सत्रं

अगरतलायाम् अस्य मासस्य एक विन्शति दिनाङ्के पूर्वोत्तर-परिषदः द्वि-सप्तति तमीये पूर्ण-सत्रं सम्बोधयता गृहमन्त्रिणा अमित शोहेनोक्तं यत् विगतानि दश-वर्षाणि पूर्वोत्तरीय-क्षेत्राणाञ्कृते महती-महत्वपूर्णानि आसन्। तेनोक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना पूर्वोत्तरीय-क्षेत्र विश्वस्य केन्द्रं विनिर्मितम् ।तेन भणितं यत् केन्द्र सर्वकारः निवेशकान् पूर्वोत्तर- क्षेत्रेषु विनिवेशाय प्रोत्साहयति । श्री शाहेनोक्तं यत् पूर्व पूर्वोत्तरस्य केवलं चर्चा एव प्रचलति स्म् । अधुना प्रधानमन्त्रिणा क्षेत्रस्यास्य विकासाय निष्पक्षतया बहवः प्रयासाः विहिताः। एतेन क्षेत्राणि एतानि महत्वपूर्णाणि सञ्जातानि, केन्द्रीय गृहमन्त्रिणोक्तं यत् आगामिषु दिवसेषु पूर्वोत्तरस्य सर्वाणि राज्यानि समृद्धानि भविष्यन्ति । तेन एतदपि भणितं यत् प्रधानमन्त्री नरेन्द्र मोदी तदीय भारतीय जनता पार्टीति दलं च पूर्वोत्तरं अशेष- देशस्य समक्ष आनेष्यति । श्री शाहेन प्रतिपादितं यत् क्षेत्रेऽस्मिन् उग्रवादी गतिविधयः अपि अपचिताः जाताः। मानव जीवनस्य क्षतिः अपि न्यनीभूता।
केन्द्रीयपूर्वात्तरविकासमन्त्री ज्योतिरादित्यसिंधियाः अवदत् यत् केन्द्रीयगृहमन्त्रिणः अमितशाहस्य अध्यक्षतायाम् आयोक्ष्यमाणायाः पूर्वोत्तरपरिषदः द्विसप्ततितमम् पूर्णोपवेशनम् अस्य क्षेत्रस्य तीव्रविकासाय नवीनाधारशिलां स्थापयिष्यति। वार्ताहरैः सह सम्भाषमाणः श्रीसिन्धियाः सूचितवान् यत् अग्रिमेषु दिनेषु पूर्वोत्तरक्षेत्रे विकासगतिः तीव्रा भविष्यति यस्य परिकल्पना प्रधानमन्त्रिणा श्रीमतानरेन्द्रमोदिना कृता अस्ति।