पुष्पकविमानम् (बालकथा)

दानशूरपुरं पूर्व धीरसिंहः नाम राजा पालयति स्म। कदाचित् सः राजोद्याने शिलासने उपविश्य प्रमुखैः राजोद्योगिभिः सह वार्तालापं कुर्वन् आसीत्।
बार्तालापमध्ये सः अकस्मात् आकाशं पश्यन् – “तत्र पश्यन्तु। अहो विमानम्! विमाने प्रायः गन्धर्वाः सन्ति इति भाति” इतिं उक्तवान्।
तदा चन्द्रकेतुः नाम उद्योगी आकाशं पश्यन् उक्तवान् – “अहो परमाश्चर्यम् ! भवतः दृष्टिशक्तिः नितरां तीक्ष्णा। तत् पुष्पकविमानं स्यात्। पुष्पकविमाने स्थिताः गन्धर्वाः, यक्षाः, देवताः वा स्युः” इति।
“सत्यम्। तत् पुष्पकविमानम् एव । विमानस्थः तु गन्धर्वः एव” इति उक्तवान् सूर्यकान्तः नाम अपरः उद्योगी।
एवं सर्वे उद्योगिनः राज्ञः वचनं समर्थितवन्तः। “नाविष्णुः पृथिवीपतिः इति प्राचीनवचनम्। राजा देवांशसम्भूतः इत्यतः तत् विमानं द्रष्टुं शक्तवान्। तावदेव न, अनुग्रहबुद्धया पामरेभ्यः अस्मभ्यम् अपि प्रदर्शितवान्” इति राज्ञः प्रशंसाम् अपि कृतवन्तः ते।
तत्र उपविष्टेषु राजपुरोहितस्य पुत्रः पद्यनेत्रः अपि अन्यतमः। सः तक्षशिलायां स्थित्वा उन्नतविद्याभ्यासं समाप्य आगतवान् आसीत्। सर्वेषु राज्ञः प्रशंसां कुर्वत्सु, पद्यनेत्रः मौनं स्थितवान् आसीत्।
एतत् पनिशील्य राजा धीरसिंहः मन्दहासपूर्वकं पृष्टवान् – “पद्मनेत्र! किमर्थ मौनव्रतम् आश्रितम् ? सर्वैः दृष्टं विमानं भवता न दृष्टं वा?” इति।
“प्रभो, एतस्य उत्तरं भवतः अप्रियं स्यात् । अतः अभयं दत्तं चेत् अहम् उत्तरं वदेयम्” इति उक्तवान् पद्मनेत्रः।
“काऽपि भीतिः मास्तु। निस्सङ्कोचं वदतु तावत्” इति उक्तवान् राजा धीरसिंहः।
“प्रभो, आकाशे किमपि विमानं न गतम्। विमानं गतम् इति तु भ्रमः एव” इति उक्तवान् पद्मनेत्रः ।
“अत्रत्यैः सर्वेः विमानं दृष्टम् अस्ति। भवान् तु वदति – भ्रमः इति। भवतः दृष्टिदोषः स्यात् वा?” इति पृष्टवान् धीरसिंहः।
तदा पद्मनेत्रः विनयेन उक्तवान् – “प्रभो, मम दृष्टिदोषः कोऽपि नास्ति । वस्तुतः पुष्पकविमानं गन्धर्वसञ्चारः इत्यादयः काल्पनिकाः विषयाः। पामराणां तोषणार्थं ते विषयाः पुराणेषु प्रस्तूयन्ते। भवता बुद्ध्या भ्रमेण वा पुष्पकविमानं दृष्टम् इति उक्तम्। तदा अत्रत्याः एते भवतः प्रीतिं सम्पादयितुम् इच्छन्तः, भवान् देवांशसम्भूतः महात्मा इति, भवान् आश्रितानुग्राहकः इति च भवतः प्रशंसां कृतवन्तः। ‘वन्ध्यासुतः दृष्टः’ इति भवान् वदतु। तदा भवत्प्रीत्यर्थम् आधिताः बदन्ति- ‘आम्, अस्माभिः अपि सः दृष्टः’ इति। स्वार्थाभिलाषुको लोकः” इति।
तदा धीरसिंहः उक्तवान् – पद्मनेत्र साधु। अप्रियम् अपि विषयं सधैयं बदतः भवतः स्पष्टवादिता नितरां प्रशंसार्हा। देशे यद्यत् प्रचलति तत्सर्वं ज्ञात्वा अप्रियम् अपि सधैर्यं वक्तुं समर्थः कश्चन साहाय्यकः मम आवश्यकः आसीत्। अतः अहम् अत्रत्यानां परीक्षार्थ ‘पुष्पकविमानं दृष्टं मया’ इति उक्तवान्। मया मिध्या उक्ता इति अत्र – कैश्चित् वा ज्ञातं स्यात् एव। ते अपि मम प्रीतिं सम्पादयितुं, जानन्तः अपि मिथ्याम् उक्तवन्तः। पद्मनेत्रेण एकेन एव सधैर्यं व्यवहृतम् । स्पष्टवादिता प्रदर्शिता। एतादृशः एवं मम साहाय्यकः भवितुम् अर्हति। एतादृशः अस्ति चेदेव अहं मम शासनस्य पदोषान् अपि ज्ञातुं शक्नोमि । अतः इतः परं पद्मनेत्रः मम साहाय्यकपदम अलङ्कृत्य मम साहाय्यं करिष्यति” इति।