पञ्चविंशत्यधिकाद्विसहस्रतम ग्रामीणभारत-महोत्सवम्

प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्ल्याः भारतमण्डपे जनवरीमासस्य चतुर्दिना‌ङ्कादारभ्य नवदिनाङ्क-पर्यन्तम् आयोजितस्य ग्रामीणभारत-महोत्सवस्य उद्घाटनानन्तरं जनसमूहं सम्बोधयन् वक्तव्यं प्रदत्तवान्। प्रधानमन्त्री ग्रामान् विकासस्य अवसरस्य च जीवन्तकेन्द्रेषु परिवर्त्य ग्रामीणभारतस्य सशक्तीकरणाय प्रशासनस्य दूरदृष्टौ बलं प्रदत्तम्। प्रधानमन्त्रिणा कथितं यत् चतुर्दशाधिक-द्विसहस्रतम-वर्षाद् आरभ्य प्रशासनं निरन्तरं ग्रामीणभारतस्य सेवां कुर्वन् अस्ति, ग्रामवासिनां कृते गौरवपूर्ण जीवनं प्रदातुं प्राधान्यम् अददात् इति । अस्य महोत्सवस्य विषयः ‘सप्तचत्वारिंशदधिक-द्विसहस्रतमवर्षाय विकसितभारताय स्थितिस्थापक-ग्रामीणभारतस्य निर्माणम्’ अस्ति ।
प्रधानमन्त्रिणा उद्घोषितं यत् केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री फसल बीमा योजना इति एकवर्षं यावत् अनुवर्तिता, सहैव असौ संसूचितवान् यत् ‘प्रधानमन्त्री-किसान्-सम्मान्-निधिः’ ग्रामीणसमाजान् स्वावलम्बी-करोति। सः अवदत् यत्, अद्यावधि अस्याः योजनायाः अन्तर्गतं कृषकाणां कृते त्रिलक्ष-कोटिरूप्यकाणां आर्थिकसाहाय्यं प्रदत्तम्। श्रीमोदिना उक्तं यत् स्वच्छभारताभियानम्, प्रधानमन्त्री आवास- योजना, जलजीवन-अभियानम् इत्यादीनि समेत्य प्रशासनस्य प्रयत्नाः ग्रामीणक्षेत्राणां लाभाय विकासाय च उद्दिष्टानि सन्ति। सः अवोचत् यत् स्वच्छं पेयजलं लक्षेषु ग्रामेषु प्रत्येकगृहेषु प्राप्यते इति। अद्यत्वे पञ्चदशांशोत्तर-एकलक्षाधिकैः आयुष्मान्-आरोग्य-मन्दिरैः जनाः उत्तम-स्वास्थ्य-सेवाः प्राप्ताः सन्ति। अस्मिन् अवसरे, प्रधानमन्त्रिणा महोत्सवे शिल्पकारैः सह संवादः कृतः। अस्य महोत्सवस्य उद्देश्यं ग्रामीणसंरचनायाः वर्धनम्, स्वावलम्बी अर्थव्यवस्थायाः निर्माणम्, ग्रामीणसमुदायेषु नवान्वेषणस्य पोषणं च अस्ति। अस्मिन् कार्यक्रमे केन्द्रीय वित्त-मन्त्री निर्मला सीतारामन्, राज्य-वित्त-मन्त्री पङ्कज चौधरी च उपस्थितौ।