वार्ताहरः- डॉ. मूलचन्द्रशुक्लः
रामनगरम्। संस्कृतभाषा सर्वभाषाणां जननी इति सर्वैरपि स्वीक्रियते । एषा भाषा न केवलं भारतस्य सांस्कृतिकक्षेत्रम् , अपितु तस्याः शब्दाः, व्याकरणम्, संरचना च अनेकासु भाषासु प्रभावं कुर्वन्ती अस्ति । अद्यापि हिन्दी-मराठी- गुजराती-तमिल- तेलुगु, आङ्ग्ल- जर्मन -प्रभृताषु अनेकविधभाषासु संस्कृतशब्दाः दरीदृश्यन्ते।
संस्कृतस्य प्रभावः अस्माकं दैनन्दिनकार्यव्यवहारे अपि स्पष्टतया परिदृश्यते। सप्ताहस्य सप्तनामानि संस्कृतात् उत्पन्नानि सन्ति । सोमवासरः चन्द्रेण (सोमेन) सह, मङ्गलवासरः मङ्गलग्रहेण, बुधवासरः बुधग्रहेण,गुरुवासरः गुरुणा सह,शुक्रवासरः शुक्रग्रहेण सह शनिवासरः शनिग्रहेण सह रविवासरश्च सूर्येण क्रमशः सम्बद्धाः सन्ति। मासानां ग्रहनक्षत्राणां च वैज्ञानिकगणनापुरस्सरमुल्लेखः संस्कृते एव प्राप्यते । अत्र द्वादशमासानां नामानि अपि वैदिकज्योतिषशास्त्रेण, खगोलशास्त्रेण च प्रेरितानि सन्ति । एतेषां नाम्नामाधारः सूर्यचन्द्रयोः गतिः चैत्रवैशाखज्येष्ठप्रभृतयो मासाः भवन्ति।
संस्कृते ग्रहनक्षत्राणां च विस्तृतं वर्णनम् अस्ति । सूर्य-चन्द्र-मङ्गल-बुध-बृहस्पति-शुक्र-शनि-प्रभृतीनां ग्रहाणां नामानि संस्कृतात् गृहीतानि वर्तन्ते। सप्तविंशतिः नक्षत्राणि (अश्विनी, भरणी, कृत्तिका इत्यादीनि) ज्योतिषग्रन्थेषु उल्लिखितानि सन्ति।
विश्वस्य विषये विस्तृता सूचना संस्कृतसाहित्ये प्रदत्ता विद्यते। “सूर्यसिद्धान्तः” “आर्यभट्टीयम्” इत्यादयः खगोलशास्त्रीयाः ग्रन्थाः सम्पूर्णजगते दिशानिर्देशं ददति इति प्रमाणम् अस्ति । ब्रह्माण्डः जगत्,लोकः,अन्तरिक्षम् इत्यादिभिः नामभिः सम्बोधितो वर्तते ।
इत्येवं प्रकारेण उत्तरप्रदेशसंस्कृतसंस्थानस्य अध्यक्षचरेण संस्कृतभारत्याः पश्चिमोत्तरक्षेत्रस्य विद्वत्परिषद्प्रमुखेण व्याकरणशास्त्रस्य लोकमान्येन विदुषा “डॉ. वाचस्पतिमिश्र” वर्येण प्रोक्तम्।
मुख्यवक्त्रा मिश्रवर्येण संस्कृतस्य अनेकेषां विषयाणां उदाहरणानि प्रदाय ग्रन्थेषु विश्वस्य, खगोलशास्त्रस्य, मानवजीवनस्य च जटिलतायाः विषये विशेषतया चर्चा विहिता । तस्य वक्तव्यं वैज्ञानिकं दार्शनिकं च अस्ति ।
अमुना उदीरितं यत् संस्कृतं न केवलं धार्मिकाध्यात्मिकक्षेत्रपर्यन्तमेव नयति अपितु व्यावहारिक-वैज्ञानिक-सन्दर्भेष्वपि सर्वदैव अग्रेसारयति। तेन प्रोक्तं यत् संस्कृतभाषा न केवलं प्राचीनभारतीयसंस्कृतेः आत्मा अस्ति, अपितु विज्ञानस्य, खगोलशास्त्रस्य, साहित्यस्य च इत्यादिक्षेत्रेषु अस्माकं अमूल्यो निधिः वर्तते। इयं भाषा अतीतस्य वैभवस्य, भविष्यस्य सम्भावनायाः च सङ्गमः अस्तीति प्रतिपादयता अमुना विदुषा शिक्षार्थिनः अभिमुखीकृताः। शिक्षार्थिनश्चापि बौद्धिकसत्रस्य काले स्वम् अनुभवं श्रावितवन्तः ।
प्रान्तसङ्गठनमन्त्री गौरवशास्त्रिमहोदयः सत्रस्य सञ्चालनं कृतवान्।
बौद्धिककार्यक्रमस्यान्ते रामनगरप्रचारसंयोजकेन संस्कृतविभागीयसहायकाचार्येण च डॉ. मूलचन्द्रशुक्लेन मुख्यवक्त्रा सह समेषां कार्तज्ञ्यं विनिवेदितम्।
बौद्धिकसत्रेऽस्मिन् कुलदीप मैन्दोला, संगठनमंत्री गौरव शास्त्री,डॉ. मूलचन्द्रशुक्लः,वर्गाधिकारी आचार्यः कीर्तिवल्लभः मैन्दोलिया, डॉ. प्रकाशचन्द्रजांगी,ज्योतिः, सन्तोषः, सलोनी, आनन्दजोशी, राकेशसेमवालः च प्रभृतयः गणमान्याः जनाः कार्यकर्तारश्च उपस्थिता आसन्।











