कम्बोजराज्यं सम्राट् तिङ्गभिङ्गः पालयतिस्म । एकदा तस्य राजसभां प्रति किश्चन बौद्धभिक्षुः आगतवान् । सः महाराजम् उद्दिश्य उक्तवान् -“महाराज ! अहं त्रिपिटिकाचार्यः अस्मि । पञ्चदश वर्षाणि यावत् समस्ते बौद्धजगति तीर्थाटनं कुर्वता मया सद्धर्मस्य गूढतत्त्वानां रहस्योद्घाटनं कृतम् अस्ति । अधुना अहं भवतः राज्यस्य राजपुरोहितः भवामि इति कामनया अत्र आगतः अस्मि । मम इच्छा अस्ति यत् कम्बोजराज्यस्य शासनं भगवतः आदेशानुसारं सञ्चालितं भवेत् इति । तदर्थम् अहं भवतः मार्गदर्शनं करोमि” इति।
एतत् श्रुत्वा महाराजः हसन् उक्तवान् – “भिक्षो ! भवतः सदिच्छा मङ्गलमयी एव अस्ति। अवश्यम् अहं तद्विषये चिन्तयामि। किन्तु मम एका प्रार्थना अस्ति यत् भवान् कृपया धर्मग्रन्थानाम् अन्यामेकाम् आवृत्ति कृत्वा आगच्छतु” इति। भिक्षोः महान् कोपः आगतः । किन्तु पुरतः साक्षात् महाराजः एव अस्ति इति कारणात् सः स्वकोपं न प्रकटितवान् । चिन्तितवान् च – ‘यदि धर्मग्रन्थानां सकृत् आवर्तनेन राजपुरोहितपदं लभ्येत तर्हि कुतः तत् न कुर्याम् ? अन्यच्च, रुष्टे महाराजे तत् पदं कदापि न लभ्येत’ इति । अतः सः ततः निर्गत्य पुनः अध्ययनस्य आरम्भं कृतवान् । गभीरतया अध्ययनं कृतवान् च ।
एकं वर्षम् अतीतम् । भिक्षुः पुनः महाराजस्य पुरतः उपस्थितः । अधुना महाराजः तम् उक्तवान् – “भगवन् ! भवान् एकान्तवासम् अनुभवन् पुनरपि एकवारं धर्मग्रन्थानां पारायणं करोति चेत् उत्तमं भवेत्” इति । तत् श्रुतवतः भिक्षोः कोपस्य सीमा एव नासीत् । किन्तु अधुनापि सः महाराजं किमपि वक्तुम् अशक्तः । अपमानेन पीडितः सन् एव एकान्तवासाय नदीतीरं गतवान् ।
नागरिकप्रपञ्चस्य समग्रकोलाहलतः दूरे नदीतीरे प्रार्थनाकरणेन तेन महान् आनन्दः प्राप्तः । अनन्तरं तु सः तत्रैव एकाग्रचित्ततया भगवतः प्रार्थनायां लीनः जातः । एकवर्षानन्तरं सम्राट् तिङ्गभिङ्गः स्वयमेव प्रजाभिः सह तत् नदीतीरम् आगतवान्। सः भिक्षु प्रणम्य प्रार्थितवान् – “भगवन्! कृपया आगच्छतु, राजपुरोहितस्य स्थानम् अलङ्करोतु” इति। परन्तु अधुना भिक्षोः मनसः राजपुरोहितस्थानस्य कामना सम्पूर्णतया अपगता आसीत् । अहङ्कारस्य स्थानम् आत्मज्ञानस्य आनन्देन पूरितम् आसीत्। सः मन्दहासं प्रकटयन् उक्तवान् – “राजन् ! सद्धर्मः न उपदेशाय, अपि तु आचरणाय भवति । उपदेशेन अहङ्कारः भवति, आचरणेन तु आनन्दः भवति । अहम् अत्र आगत्य आचरणेन एव आनन्दम् अनुभूतवान् । भगवतः आदेशः स्पष्टः अस्ति। तत्र आचार्यस्य आवश्यकता नास्ति। भगवान् तु एकेनैव वाक्येन सर्वम् उक्तवान् अस्ति -‘उद्दीपो भव’ इति। भवान् अपि आत्मदीपो भवतु । अहं कस्यापि पुरोहितः न भवामि” इति।











