प्रधानमन्त्री नरेन्द्रमोदी-अमेरिका यात्रा

प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकीयराष्ट्रपतिना डोनाल्ड ट्रम्पेन सह वाशिङ्गटनडीसीनगरस्य व्हाइटहाउस् इत्यत्र द्विपक्षीयवार्तालापः कृतः। स्वभाषणे श्रीमोदी अवदत् यत् उभौ भारत-अमेरिका-रणनीतिकसहभागितां अग्रे सारयिष्यतः। सः अवदत् यत्, ट्रम्पेन तेषां सम्बन्धं व्यापकतां सुदृढं च कर्तुं योगदानं प्रदत्तम्। प्रधानमन्त्रिणा टेक्सास्-नगरे हाउडी-मोदी-इवेण्ट्, गुजरात-नगरे नमस्ते ट्रम्प-इवेण्ट्-इत्युभयोः स्मरणं कृतम्। अमेरिकीराष्ट्रपतिनिर्वाचने भव्यं ऐतिहासिकं च विजयं प्राप्तुं श्रीमोदी ट्रम्पाय अभिनन्दितवान्। सः अवदत्, गतवर्षे भारतीयाः तस्मै तृतीयवारं क्रमशः तेषां सेवायाः अवसरं दत्तवन्तः। सः अवदत्, उभौ मिलित्वा द्वयोः राष्ट्रयोः प्रगतिं समृद्धिं च प्रति नेष्यावः। सः अवदत्, एषः युद्धयुगः नास्ति, कूटनीति माध्यमेनापि समाधानं कर्तव्यम् इति। अमेरिकीयसुरक्षा परामर्शदः माइकल वाल्ट्ज् इत्येषः टेस्ला स्पेसएक्स् इत्यस्य एलोन् मस्क् इत्येषः भारतीय-अमेरिकीयः उद्यमी विवेकरामास्वामी च प्रधानमन्त्रिणा मोदिना सह मिलितवन्तः। अस्माकं वार्ताहरः सूचितवान् यत् राष्ट्रपतेः ट्रम्पस्य द्वितीयराष्ट्रपतिकार्यकालस्य उद्घाटनानन्तरं प्रधानमन्त्रिणः मोदिनः अमेरिकादेशस्य प्रथमा यात्रा अ॒स्ति।