भारत-कतर-साहमत्यम्

कतर-देशस्य अमीर इति पदासीनः शेख-तमीम बिन हमद अल-थानि इत्येषः द्वयोः दिनयोः आधिकारिकयात्रायाम् अष्टादश दिनाङ्के नवदिल्लीं प्राप्तवान् । तेन सह मन्त्रिणः वरिष्ठाधिकारिणः व्यापारप्रतिनिधिमण्डलं च समेत्य उच्च-स्तरीय प्रतिनिधिमण्डलम् अपि सन्ति । प्रधानमन्त्री नरेन्द्रमोदी विमानपत्तनस्थानके शेख तमीम बिन हमद अल-थानी इत्यस्य स्वागतम् अकरोत् । तदनु प्रधानमन्त्रिणा नरेन्द्रमोदिना सह द्वैपाक्षिकसम्बन्धानां विभिन्नेषु विषयेषु वार्तालापं अकरोत । कतर-देशस्य अमीर इत्येतस्य यात्रायाः समये व्यापारः, निवेशः, ऊर्जा, प्रौ‌द्योगिक-सहकारः च प्रमुखाः विषयाः । भारत-कतर-देशयोः दृढम् आर्थिकसहभागित्वम् अस्ति, द्वैपाक्षिकव्यापारः विविधक्षेत्रेषु विस्तृतः अस्ति।
प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना नव दिल्ल्यां कतर देशस्य अमीर-शेख – तमीम-बिन-हमद-अल-थानी इत्यनेन साकं द्वैपाक्षिकं मन्त्रणोपवेशनम् आचरितम्। अस्मिन् उपवेशने भारतस्य पक्षतः विदेशमन्त्री डॉ. एस. जयशंकरः, वित्तमन्त्री निर्मला सीतारामन्, वाणिज्योद्योग-मन्त्री पीयूषगोयलः, राष्ट्रिय-सुरक्षा-सम्मर्ष-दाता अजीत डोभालः अन्ये च वरिष्ठाः अधिकारिणः उपातिष्ठन्त। उपवेशने कतर-देशस्य मन्त्रिणां वरिष्ठाधिकारिणां च एकम् उच्चस्तरीयं प्रतिनिधिमण्डलमपि उपस्थितम् आसीत्। उपवेशनात् पूर्व, प्रातः अमीरस्य राष्ट्रपति-भवनस्य प्रांगणे औपचारिक रूपेण स्वागत-सपर्या सम्पन्ना आसीत्। एतस्मिन् अवसरे राष्ट्रपतिः द्रौपदीमुर्मू, प्रधानमन्त्री मोदी अन्ये च नैके केन्द्रीय-मन्त्रिणः उपस्थिताः आसन्। अत्रावसरे उभाभ्यामपि नेतृभ्यां भारत- कतरयोः सम्बन्धानां सुदृढीकरणार्थं प्रतिनिधिमण्डल-स्तरीयं सम्भाषणं साधितम्।
अस्य मन्त्रणोपवेशनस्य अवसरे, प्रधानमन्त्री मोदी अमीर शेख-तमीमश्च विभिन्न-क्षेत्रेषु सहयोगस्य संवर्धनार्थं भृशं परिचर्चा कृतवन्तौ । एताभ्यां व्यापार-निवेश-ऊर्जा-सुरक्षा-सदृशेषु प्रकरणेषु विस्तारेण चर्चा कृता। अत्रान्तरे भारत-यू.ए.ई-देशाभ्यां कार्यनीतिक-साहमत्यस्य वर्धनार्थं महत्वपूर्णानि हस्ताक्षराणि अपि कृतानि सन्ति ।प्रधानमन्त्रिणा मोदिना एतद् उपवेशनं “अद्भुतम्” इति प्रतिपाद्य प्रोक्तं यत् एतत् भारत-कतरयोः मध्ये सम्बन्धान् सुदृढीकर्तुम् एकः महत्वपूर्णः पदक्षेपः अस्ति।