भारतस्य ए.आई. मॉडल-कम्प्यूटेशन जी.पी.यू

केन्द्रीय-वैद्युत्कीय-सूचनाप्रसारण- मन्त्री अश्विनीवैष्णवः प्रतिपादितवान् यत् आगामिषु त्रिषु चतुर्षु च वर्षेषु भारतं स्वस्य ग्राफिक्स-प्रोसेसिंग यूनिट इति विकसितं करिष्यति। असौ अप्रें अवोचत् यत् भारतस्य ए.आई. मॉडल-कम्प्यूटेशन जी.पी.यू इत्येतस्य मूल्यं विश्वे न्यूनतममस्ति यद्धि चत्वारिंशत्प्रतिशतं सर्वकारीयानुदानस्य अनन्तरं प्रायशः सप्तषष्टि रुप्यकाणि प्रतिहोरां यावदस्ति नवदिल्ल्यां कृत्रिम बुद्धिमत्तयाः ए.आई.-इत्येतया सम्बद्धानां कोषान्तर्जाल पटल-पदक्षेपाणां शुभारम्भं श्रीवैष्णवः कृतवान् ।
नीति आयोगेन चापि एकं कार्य-नीतिकं पत्रं प्रख्यापितम्। क्वांटम कंप्यूटिंग इत्यस्य तीव्र-गत्या विकासार्थं राष्ट्रिय-सुरक्षा-विषये एतस्य प्रभावम् आश्रित्य नव-दिल्ल्याम् आयोजिते एकस्मिन् कार्यक्रमे “नीति फ्रंटियर टेक हब” इत्यनेन ‘डेटा सिक्योरिटी काउंसिल ऑफ इंडिया’ इत्यनेन च सम्भूय देशस्य फ्रंटियर टेक नेशन मध्ये परिवर्तनस्य तीव्रीकरणस्योद्देश्येन एकं पत्रं प्रख्यापितम् अस्ति। पत्र-प्रख्यापनस्य समये नीत्यायोगस्य सी.ई.ओ. इति प्रमुख-कार्यकारि-अधिकारिणा बी.वी.आर. वर्येण देशस्य समग्रां सुब्रह्मण्यम् क्षमताम् उद्घाटयितुं सद्यस्तनीनानां प्रविधीनां सक्रिय-रूपेण अभि-स्वीकरणस्य आवश्यकता-विषये प्रकाशः प्रक्षिप्तः। अमुना प्रोक्तं यत् अनुसंधानस्य, नवाचारस्य, च वैश्विक सहभागितायां कार्यनीतिको निवेशः प्राविधिक-प्रगतेः विषये भारतस्य अग्रपङ्क्तौ दर्तनार्थं महत्वपूर्णः भविष्यति।