दिल्ली- रक्षामन्त्री राजनाथसिंहः अमेरिकायाः राष्ट्रीय-गुप्तचर-निदेशिकया तुलसी गबार्डन सह मिलितवान्

विगत सप्तदश दिनाङ्के नवदिल्ल्यां भारतस्य रक्षा-मन्त्रिणा श्रीराजनाथसिंहेन अमेरिकायाः राष्ट्रीय-गुप्तचर-निदेशिकया तुलसी गबार्ड इत्यनया सहोपवेशनं विहितम् । उपवेशनावधौ उभौ नेतारौ सबलं अङ्गीकृतवन्तौ यत् सामरिक सुरक्षा उभयोः देशयोः वैश्विक-सामरिक सहयोगस्य प्रमुखः स्तम्भः वर्तते।
श्रीसिंहेन सुश्री-गबार्ड इत्यनया च भारत-अमेरिका-देशयोः सैन्याभ्यासस्य, सामरिक-सहयोगस्य, सूचना-संवहन-सहयोगस्य सहैव सामुद्रिकक्षेत्रेषु कृतायाः प्रमुखाप्रगतेः समीक्षा कृता। रक्षा-मन्त्रालयेन स्व-वक्तव्ये उक्तं यत् उभौ नेतारौ अत्याधुनिकरक्षा-नवाचारे विशिष्ट-प्रौद्योगिक्याञ्च सहयोगाय मार्गानन्वेष्टुं प्रयतितवन्तौ, अनेन पारस्परिक सामरिक हितस्य संवर्धनार्थं तयोः समर्पणं दृश्यते।
मन्त्रालयेन इदमप्युक्तं यत् उभाभ्यामपि नेतृभ्यां अन्तरसञ्चालनस्य, नवाचारस्य संवर्धनार्थं रक्षौद्योगिकानां आपूर्ति-शृङ्खलानां समेधनार्थञ्चापि सम्बोधनं कृतम्। अस्माकं संवाददाता अवोचत् यत् एताभिः चर्चाभिः भारत-अमेरिका-द्विपक्षीय-रक्षा-सहयोगस्य संवर्धमानायाः शक्तेः पुष्टीभवति।