छत्तीसगढ़े द्वयोः भिन्न-घटनयोः त्रिंशत्-माओवादिनः मारिताः। माओवादिभिः सह सङ्घर्षे जनपद-रिजर्व-आरक्षिबलस्य एकः आरक्षकः अपि दिवङ्गतः। बीजापुर-दन्तेवाडा-जनपदयोः सीमाक्षेत्रे स्थितेषु वनेषु माओवादिनः उपस्थिताः सन्ति इति गुप्तसूचनाः सुरक्षासेनां प्राप्तानि आसन्। इमां गुप्तसूचनाम् अनुसरन् सुरक्षासेनानां संयुक्तदलेन अन्वेषणकार्यम् आरब्धम्। विंशति दिनाङ्के प्रातःकालात् गङ्गालूर-क्षेत्रे सुरक्षासेनानां माओवादिनां च मध्ये गोलिकाप्रहारः जातः। अधुना यावत् षड्विंशति-माओवादिनां शरीराणि प्राप्तानि सन्ति। अस्मिन् क्षेत्रे अन्वेषणकार्यम् अधुनापि प्रचलति। छत्तीसगढस्य काकेर-जनपदे अन्यस्मिन् अभियाने सुरक्षासेनानां माओवादिनां च मध्ये गोलिकाप्रहारेण चत्वारः माओवादिनः मारिताः। एतेषां माओवादिनः शवः प्राप्ताः सन्ति। तत्रैव बृहत्प्रमाणेन शस्त्राणि गोलाबारूदानि च प्राप्तानि सन्ति । एतेषु मुठभेड़ेषु केन्द्रीय रिजर्वपुलिसबल-सीआरपीएफ, विशेषकार्यदल-एसटीएफ तथा जिला रिजर्व गार्ड-डीआरजी इत्येतयोः जवानाः सम्मिलिताः आसन्।माओवादी विचारधारायां केन्द्रविषयः राज्यशक्तिं ग्रहीतुं साधनरूपेण हिंसायाः सशस्त्रविद्रोहस्य च उपयोगः अस्ति । ‘शस्त्रधारणं अवार्तालापयोग्यम्’ इति माओवादीविद्रोहसिद्धान्तानुसारम् ।











