भारतदेशः पञ्चत्रिंशदुत्तर-द्विसहस्रत्तमवर्षं यावत् अन्तरिक्ष-स्टेशन इति नाम्ना स्वकीयम् अन्तरिक्ष-स्थानकम् भवेत् इति धिया योजनां निर्मापयन्नस्ति। सर्वाः अपि योजनाः यदि सुचारुतया ससमयं सम्पन्नाः भविष्यन्ति तर्हि चत्वारिंशदधिक-द्विसहस्रवर्षं यावत् भारतीय-अन्तरिक्षयात्री चन्द्रमसि भविष्यति । इति प्रधानमन्त्री कार्यालय जितेन्द्रसिंहः लोकसभाया एकस्य पूरक प्रश्नस्योत्तरे अवदत् । राज्यमन्त्री डॉ. श्रीसिंहेन प्रोक्तम् यत् चन्द्रयान-फोर इत्येतत् द्वाभ्यां प्रक्षेपणयनाभ्यां प्रक्षेपयिष्यते अपि चास्मिन् घटकपञ्चकम् भविष्यति। गगनयानाय चिताः चत्बारः यान्त्रिणः जनसम्पर्कात् दूरं किमर्थं स्थापिताः सन्तीति प्रश्नस्योत्तरे श्रीजितेन्द्रसिंहः उक्तवान् यत ते एतदर्थं जनसम्पर्कात् वारिताः सन्ति, यतो हि तेषां चित्तवृत्तयः नियन्त्रिताः स्युः, येन तेषां सम्पर्कः तादृशेभ्यः वस्तुभ्यः गतिविधिभ्यः वा न भवेत् येन तेषां चित्तवृत्तयः विचलिताः भवितुं शक्नुवन्तीति। तेनोक्तं यत् वर्षान्तं यावत् एकया महिला – रोबोट इत्यनया साकं गगनयानस्य परीक्षणोद्गमनं समारप्स्यते।











