असंतृप्तिः ( बाल कथा )

कस्मिंश्चित् ग्रामे केशवः नाम कश्चित् निरुद्योगी आसीत् । सः एकदा तत्रत्यधनिकस्य गृहं गत्वा उद्योगं प्रार्थितवान् । अनन्तरं प्रवृत्तेन वार्तालापेन सन्तुष्टः
धनिकः – “भवान् वेतनत्वेन कति रूप्यकाणि इच्छति ?” इति पृष्टवान् ।
केशवः – “भवतः इच्छा” इति उक्तवान् ।
तदा धनिकः – “तथा मास्तु । भवतः जीवनार्थं कति रूप्यकाणि आवश्यकानि इति वदतु” इति उक्तवान् ।
केशवः किञ्चिदालोच्य – “द्विशतं रूप्यकाणि ददातु” इत्युक्तवान् ।
“तथास्तु । श्वः प्रातः कार्यारम्भं करोतु” इत्युक्तवान् धनिकः ।
तदा केशवः असन्तुष्टः सन् ‘मया द्विशतं पृष्टम् । त्रिशतं प्रष्टुमपि अवकाशः आसीत् । इदानीं पुनः गत्वा प्रष्टुं न शक्यते’ इति चिन्तयन् बहुधा व्याकुलितः अभवत् ।
परेद्युः केशवः धनिकस्य गृहं गत्वा कार्यं कर्तुम् अनुमतिं प्रार्थितवान् । तदा धनिकः म्लानेन मुखेन एवम् उक्तवान् – “भोः, अन्यथा मा भावयतु । एतानि दशरूप्यकाणि स्वीकृत्य गच्छतु । यतः पूर्वं यः कर्मकरः आसीत् स एव पुनः क्षमायाचनां कृत्वा कार्यं कर्तुम् आरब्धवान्” इति ।
केशवः दशरूप्यकाणि स्वीकृत्य उक्तवान् – “भोः, भवतां गृहे कार्यं नास्ति इति श्रुत्वा मम बहु सन्तोषः अभवत् ।”
“किमर्थम् ?” इति आश्चर्यचकितः धनिकः पृष्टवान् ।
“कारणं न वदामि । किन्तु एकं विषयं निवेदयामि । कृपया इतःपरं भवता वेतनविषये कर्मकराः कदापि नैव प्रष्टव्याः । तेषां कार्यकुशलतां दृष्ट्वा भवान् एव तेषां वेतनं निश्चिनोतु” इति केशवः उक्तवान् ।
केशवेन किमर्थं तथा उक्तम् इति धनिकः ज्ञातुं न शक्तवान् ।