तेलङ्ङ्गनायाम् अग्निकाण्डः

तेलङ्गानायाम् विगत अष्टादश दिनाङ्के प्रातः हैदराबादस्थे चारमिनारस्य समीपे आवासीयक्षेत्रे दुरापादिते अग्नि-काण्डे सप्तदश जनाः मृताः, अनेके च व्रणिताः। मृतकेषु अष्ट बालकाः सन्ति ये सप्तवर्षाणि यावत् आसन् अपि च षट् महिलाः सन्ति । व्रणिताः समीपस्थेषु विविधचिकित्सालयेषु स्थानान्तरिताः सन्ति। गुलजार हाउस् क्षेत्रे ग्राउण्ड्-प्लस्-टू-भवने अग्निः काण्डः अभवत्। भूतले अग्निः प्रज्वलितः, पश्चात् उपरि-तलद्वयं यावत् प्रसृतः । तेलंगाना-आपत्-प्रतिक्रिया-अग्निसेवा विभागस्य डीजी वाई नागी रेड्डी इत्यनेन उक्तं यत् एकादश अग्निशमन वाहनानि, एकः रोबोटः च तत्क्षणमेव सेवायां नियोजितः।
अग्निकाण्डस्य कारणम् अधुनापि न ज्ञातं, कारणस्य अन्वेषणाय आरक्षीवलम् सूचितम्। केन्द्रीय-कृष्णा‌ङ्गार-खनि-मन्त्री जी किशन रेड्डी इत्यसौ घटनास्थलं गत्वा प्रभावितेभ्यः परिवारेभ्यः सर्व-विध-साहायतानाम् आश्वासनं प्रदत्तवान्। मुख्यमन्त्रिणा रेवन्तरेड्डी वर्येण प्रभावितजनेभ्यः उत्क्त्मचिकित्सासहायताप्रदानार्थ सर्वविधोपायान् कर्तुं च अधिकारिणत्र निर्दिष्टाः।
राष्ट्रपतिपदासीना द्रौपदीमुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी च तेलंगानाराज्यस्य गुलजार हाउस इति स्थले दुरापादितम् अग्निकाण्डम् अथ महाराष्ट्रस्य सौलापुरे यन्त्रागारे दुरापादितम् अग्निकाण्डं चाभिलक्ष्य शोकं प्रकटितवन्तौ। राष्ट्रपतिपदासीना द्रौपदीमुर्मुः संचारतन्त्रपटले समुल्लिखितवती यत् अग्निकाण्डेन जनानां मृत्योः सूचना अतीव दुखदायी। तया सर्वेभ्यः शोकसंतप्तपरिवारेभ्यः स्वीयसम्वेदना प्रकटिता, अथ हताहतानां शीघ्र स्वास्थ्यलाभाय प्रार्थनां कृता। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्, अग्निकाण्डेन प्राणहानिना सः अतीव दुःखमनुभवति। सामाजिकान्तर्जालीयसन्देशे सः प्रभावित-परिवाराणां कृते शोकं प्रकटितवान्। सः प्रत्येकस्य मृतकस्य परिवारस्य कृते द्विलक्षरूप्यकाणां अनुग्रहराशेः घोषणां कृतवान् । व्रणितानां कृते च पञ्चाशत् सहस्ररूप्यकाणि प्रदत्तानि भविष्यन्ति।