ज्ञानपीठ-पुरस्कारः

राष्ट्रपतिः द्रौपदी मुर्मूः संस्कृत-विदुषे जगद्गुरु-रामभद्राचार्याय त्रयोविंशत्यधिक-द्वि-सहस्र-तम-वर्षस्य कृते नवदिल्ल्याम् अष्टपञ्चाशत् तमं ज्ञानपीठपुरस्कारं प्रदत्तवती । जगद्गुरु-रामभद्राचार्यः प्रख्यातः उर्दू कविः गीतकारः गुलजारः च अस्य प्रतिष्ठितपुरस्काराय चितौ स्तः।तस्याः कामना आसीत् यत् गुलजारजी शीघ्रमेव पूर्णतया स्वस्थः सक्रियः च भूत्वा कला, साहित्ये, समाजे, देशे च योगदानं निरन्तरं ददाति। साहित्यक्षेत्रे उत्कृष्टयोगदानाय प्रख्यात-जनाः अस्मिन् पुरस्कारेण सम्मानिताः सन्ति। अस्मिन् अवसरे प्रवदन् राष्ट्रपतिः उभयोः अभिनन्दनं कृतवती । राष्ट्रपतिः भारतीयज्ञानपीठन्यासस्य प्रशंसाम् अकरोत् यत् तेन १९६५ तमे वर्षात् विविधभारतीयभाषायाः उत्कृष्टसाहित्यकाराः पुरस्कृताः।