वटसावित्रीव्रतम् 26 मई 2025 दिनाङ्के आयोज्यते

ज्येष्ठमासस्य पूर्णिमायां भारतीयाः ’वटसावित्रीव्रतम्’ आचरन्ति । इदं व्रतं सन्तानसौभाग्यप्राप्तये विशेषतः महिलाः आचरन्ति । व्रतमेतत् भारतीयसंस्कृतौ आदर्शनार्याः प्रतीकं भवति । स्कन्दपुराणानुगुणं ज्येष्ठमासस्य पूर्णिमायाम् आचरेत् । निर्णयामृतानुगुणम् अस्य आचरणं ज्येष्ठमासस्य आमावास्यायाम् इति मतभेदः अस्ति ।
तिथिभेदः अस्ति चेदपि उद्देशः एकः एव सत्सन्तानप्राप्तिः सौभाग्यवृद्धिः च । अनेन भारतीयमहिलाः स्वपतिव्रताधर्मम् आत्मसात् कुर्वन्ति । विशेषज्ञाः ज्येष्ठमासस्य शुक्लपक्षस्य त्रयोदशीतः अमावास्यापर्यन्तं दिनत्रयस्य व्रतम् इति वदन्ति । अस्मिन् व्रते वटस्य (वटवृक्षस्य) सावित्र्याः च द्वयोः महत्त्वम् अस्ति । सामान्यतः भारतीयपरम्पपरायाम् अश्वत्थवृक्षः पवित्रः । अस्मिन् वृते तु न्यग्रोधस्य प्राधान्यम् अस्ति । पराशरमुनिना उक्तं यत् ’वटमूले तोपवासाः’ इति । वटवृक्षे ब्रह्मा विष्णुः महेश्वरः च वसन्ति इति पुराणेषु उक्तम् । अस्य छायायाम् उपविश्य व्रतपूजादिभिः कथाश्रवणेन च मनोकामनाः पूर्णिताः भवन्ति इति । अस्य विश्वासस्य पृष्ठभूमौ एवं वैज्ञानिकं सत्यमपि भवेत् । वटवृक्षः स्ववैशाल्यविषयेऽपि प्रसिद्धः एव । ज्येष्ठमासस्य तीक्ष्णातपात् अपि रक्षणं भवति इति चिन्तनं स्यात् ।
दार्शनिकदृष्ठिकोणे यदि पश्यामः चेत् वटवृक्षस्य आयुः दीर्घम् अस्ति । पत्युः दीर्घायुष्यर्थम् अपि पतिव्रताः अस्य पूजनं कुर्वन्ति । अयं वृक्षः ज्ञानस्य निर्वाणस्य च प्रतीकोऽपि अस्ति । महिलाः वटसावित्रीव्रतकथाश्रवणपूर्वकं वृटवृक्षस्य काण्डे सूत्रबन्धनम् अपि कुर्वन्ति ।