विगत सप्ताहे कृत्स्ने हि विश्वे अन्ताराष्ट्रिय-योग- दिवसः सोत्साहं इति उत्सवः कृतः। यत्र सम्पूर्ण देशे शततमेषु प्रतिष्ठित पर्यटनाधारितेषु गन्तव्यस्थलेषु, पञ्चाशदधिकेषु सांस्कृतिक-स्थलेषु च योग-सत्राणां आयोजनं कृतम्। आयुष्-मन्त्रालयेन विशाखापत्तन इत्यत्र प्रधानमन्त्रिणः उपस्थितौ एकः विशेषयोगोत्सवः कृतम्। योगदिवसावसरे, देहल्याः “पुराना किला” , कर्णाटकस्य “गोल-गुम्बदः”, ओडिशा-राज्यस्य “कर्णक्-सूर्यमन्दिरं”, राजस्थानस्य “चित्तोर्गढ़-दुर्गः”, महाराष्ट्रस्य “एलिफेंटा केव्स-गुहा” – इत्यादिषु प्रतिष्ठितेषु ऐतिहासिक-स्थलेषु योगस्य अभ्यासं कर्तु सहस्रशः प्रतिभागिनः समागच्छित्वन्तौ । अन्ताराष्ट्रिय-योग दिवसस्य अवसरे प्रधानमन्त्री नरेन्द्रमोदी विशाखापट्ने सामान्य-योग-प्रोटोकाल्-सत्रे भागं अगृह्णात्, यस्मिन् योग-सङ्गम्-उपक्रमस्य अन्तर्गतं सम्पूर्ण देशे दश लक्ष्यतोप्यधिकेषु स्थलेषु त्रि-लक्षात् अधिकाः प्रतिभागिनः भागं अगृह्णात् । अनेके केन्द्रीयमन्त्रिणः, अन्ये च प्रमुखाः गणमान्य जनाः सम्पूर्ण देशे विभिन्नेषु स्थानेषु उत्सवेषु भागं वहन्ति स्म । अस्य वर्षस्य विषयो वर्तते – “एका-पृथिवी, एकं-स्वास्थ्यमिति” ।
अन्ताराष्ट्रिय-योगदिवसः सम्पूर्ण देशे सोत्साहं इति उत्सवः कृतः। अस्यावसरे देहरादून्-नगरस्य ‘पुलिस लाइन’ इति क्षेत्रे आयोजिते योगशिविरे राष्ट्रपतिः द्रौपदी मुर्मुः भागम् अगृह्णात्। विश्व-मञ्चे योगस्य प्रोत्साहने भारतस्य महत्त्वपूर्णा भूमिकां प्रकाशयन्ती सा अवदत् यत्, अधुना विश्व-समुदायः योगस्य विषये अधिकम् आदरं धारयति, येन महाद्वीपेषु जनाः तस्य लाभमपि अनुभवन्ति ।
आन्ध्रप्रदेशस्य विशाखापट्नं-नगरस्य रमणीय-समुद्रतटं निकषा एकादशं अन्ताराष्ट्रिय-योग-दिवसोत्सवम् संबोधयन् श्री नरेन्द्रमोदिना अवदत् यत् योगः एकः विरामचिह्नः अस्ति यतो हि मानवजातीनां श्वासोच्छवासयोः सन्तुलनं कर्तुं, पुनः स्वस्थं भवितुं च आवश्यकं भवति । प्रधानमन्त्रिणा उक्तं यत् अद्य योगः विश्वस्य विभिन्नेषु भागेषु वर्धमानस्य मनस्संतापस्य, अशान्तेः, अस्थिरतायाः च मध्ये शान्तेः मार्गम् प्रददाति, तथा च शान्तियुतं, सन्तुलितं, सुस्थिरं च विश्वं प्रवर्तयितुं सामूहिकप्रयासस्व आह्वानम् करोति। सः अवदत् यत् योगः विश्वं संघर्षात् सहकारं प्रति नयेदिति। सः अवदत् यत् जगति योगस्य प्रसाराय, भारतं आधुनिकशोधमाध्यमेन योगविज्ञानं इतोऽपि सुदृढं करोति, यस्मिन् देशस्व प्रमुखाः चिकित्सा-संस्थाः योगविषयिक- संशोधने निरताः सन्ति।
लद्दाख-नगरे कार्गिल्-क्षेत्रस्य क्री-सुल्तान्-चू-क्रीडाङ्गणे अन्ताराष्ट्रिय-योगदिवसः अत्यन्तोत्साहेन आचर्यत। गोवाराज्ये मुख्यमन्त्री डा. प्रमोद सावन्तः तालीगांव-नगरस्य श्यामा प्रसाद मुखर्जी-क्रीडाङ्गणे योगदिवसस्य कार्यक्रमस्य नेतृत्वं कृतवान्। सः योगः विश्वस्य कृते भारतस्य महान् उपहारः इति च उद्घोषितवान्। गोवाराज्ये एकादशः अन्ताराष्ट्रिय-योगदिवसः वचिविन आध्यात्मिकशक्त्या च आचर्यते। केन्द्रीय-नवीन पुनर्नवीकरणीय ऊर्जा-राज्यमन्त्री श्रीपाद-नायकः ओल्ड्-गोवा-नगरस्य भव्य-चर्च्-कन्वेण्ट्-इति विश्वविदितस्थले उत्सवस्यास्य नेतृत्वं कृतवान्। सभाम् सम्बोधवन् सः, कथं योगः न केवलं शरीरम् अपितु मनसः आत्मनश्च पोषणं करोतीति उक्तवान्।











