PM Modi ghana travel

प्रधानमन्त्री- घाना तथा त्रिनिदाद टोबगो यात्रा

प्रधानमन्त्री श्रीनरेन्द्रमोदी घानादेशस्य संसदं सम्बोधयन् अवदत् यत् घानादेशः लोकतन्त्रस्य भावनां विकीर्णां करोति, यत्र हि, घानादेशे भवितुं, सम्माननीयं संसदं च सम्बोधयितुं सः अतीव गौरवम् अनुभवति । प्रधानमन्त्री अवदत् यत् विश्वस्य वृहत्तमस्य लोकतन्त्रस्य प्रतिनिधित्वेन सः एक-दशमलव चत्वारि शतकोटि-भारतीयानां सद्भावनाम् अभिवादनं च स्वेन सह समानयत्। सः अवदत्, घानादेशः न केवलं तस्य मृत्तिकायां सुवर्णः अस्तीति, सुवर्णभूमिः इति प्रसिद्धः, अपि तु तस्य जनानां तेज, सः बलस्य च कारणेन सः सुवर्णभूमिः कथ्यते।
ततः पूर्वं प्रधानमन्त्री मोदी, अथ घानादेशस्य राष्ट्रपतिः जॉन् द्रमणिमहामा च प्रतिनिधिमण्डलस्तरस्य वार्ता कृतवन्तौ, ततः राष्ट्रद्वयं व्यापक सहयोग-रूपेण स्वसम्वन्धस्य उन्नतीकरणाय तयोर्मध्ये सहमतम् अभवत्। व्यापार, निवेश, कृषिक्षेत्र, डिजिटलप्रौद्योगिकी, क्षमतानिर्माण, आधारभूतसंरचना, जनसम्बन्धा दिषु क्षेत्रेषु सहकार-विस्तारस्य विषये चर्चा अभवत्। द्वयोः देशयोः मध्ये संस्कृति-मानक-आयुर्वेद-पारम्परिकचिकित्सा-क्षेत्रेषु चत्वारि सन्धि-पत्राणि, संयुक्त-आयोग-तन्त्रविषये च हस्ताक्षराणि कृतानि। उभौ नेतारौ घानादेशे वर्धमानस्य द्विपक्षीयव्यापारस्य भारतीयनिवेशस्य च स्वागतं कृतवन्तौ, रक्षासुरक्षासहकार्यस्य विपये अपि उक्तवन्तौ। इतः परं श्रीमोदी स्वस्य यात्रायाः द्वितीये चरणे त्रिनिदाद्-टोबैगो-देशं प्रति प्रस्थितवान्। प्रधानमन्त्रित्वेन अस्य देशस्य तस्य प्रथमा यात्रा भविष्यति, नवनवत्यधिक-ऊनविंशतितम वर्षात् परं प्रधानमन्त्रिस्तरस्य प्रथमा द्विपक्षीययात्रा च भविष्यति।
प्रधानमन्त्री श्रीनरेन्द्रमोदी त्रिनिदाद टोबैगो देशे षष्ठवंशश्रेणिक भारतीयमूलस्य नागरिकाणां कृते ओ.सी.आई-कार्ड इति भारतीय-विदेशी-नागरिकपत्रस्य घोषणां कृतवान्, येन ते भारते प्रतिबन्धं विना निवासं कार्यं च कर्तुं शक्नुवन्ति। त्रिनिदाद टोबैगो देशे एकं कार्यक्रमं सम्बंधियन् श्रीमोदी भारतीयसमुदायं स्व-पैतृकभूमौ भ्रमितुं, भारतेन सह-सम्बन्धं गभीरं कर्तुं च प्रोत्साहितवान्।