ब्रिक्स शिखरसम्मेलनं

ब्राज़िल्-देशस्य रियो-डि-जीनेरो-नगरे ब्रिक्स्-शिखरसम्मेलने ‘द लीडर्स डिक्लरेशन्’ इति महत्त्वपूर्णपदक्षेपः समुत्थापितः। पहलगामेति क्षेत्रे आततायिभिः दुरापादितकुकर्मस्य च कठोरतमरूपेण निन्दा कृता। भयोत्पादकानां सीमापारगमनं, आततायिनां वित्तपोषणम्, तेभ्यः सुरक्षित-आश्रयस्थानानि दानादीनाञ्च निन्दां कुर्वन्तः ब्रिक्स्-नेतारः आत‌ङ्कवादं विरुध्य स्वप्रतिबद्धतां पुनः दृढीकृतवन्तः ।
प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् भयोत्पादकान् विरुध्य प्रतिबन्धान् विधायितुं सङ्कोचः न भवेदिति । सः अवदत् यत् आतङ्क-पीडितानां, समर्थकानाञ्च तुलना समानरूपेण कर्तुं न शक्यते। ब्राज़िल्-देशे ब्रिक्स्-शिखरसम्मेलने शान्ति-सुरक्षाविषयकम् सत्रम् अभिसंबोधयन् श्रीमोदी अवदत् यत् भयोत्पादनं अद्यत्वे मानवतायै गभीरप्रतिरोधरूपेण उद्भूतमस्तीति। पहलगामेति प्रकरणे भारतस्य आत्मा, अस्मिता, सम्मानञ्च आक्रमितमिति । यदि कश्चन देशः प्रत्यक्षतः अप्रत्यक्षतया वा भयोत्पादनस्य समर्थनं करोति तर्हि तस्य मूल्यं तेन दातव्यं भविष्यतीत्यपि प्रधानमन्त्रिणा प्रतिपादितम्।
श्री नरेन्द्रमोदिना कथितं यत् केनापि देशेन स्वार्थपूर्त्यर्थं खनिजानां, प्रौद्योगिकीनां, आपूर्ति-श्रृङ्खलानाञ्च शस्त्ररुपेण प्रयोगः न कर्त्तव्यः।तेनोदीरितं यत् महत्त्वपूर्णखनिजेषु प्रौद्योगिकीषु च सहयोगेन सह आपूर्ति-श्रृङ्खलानां सुरक्षार्थमपि अवधानं भवेत्। श्रीमोदिना प्रोक्तं यत् याचनाधारितनिर्णये दीर्घकालिक-वित्तीय-स्थैर्ये सहैव डेवलपमेंट-बैंक-परियोजनासु स्वस्थमामर्थ्याङ्कस्य च रक्षणे ध्यानं केन्द्रितं स्यात्। प्रधानमन्त्रिणा प्रोक्तं यत् एकविंशतितमे शतके जनानां प्रगतिः कल्याणञ्च प्रौद्योगिक्यां विशेषतः से कृत्रिम बुद्धिमत्तायाञ्च आथितमस्ति। प्रधानमन्त्रिणा ब्रिक्स-देशेभ्यः कृत्रिम-बुद्धिमत्तायाः उत्तरदायित्वपूर्ण-प्रयोगाय आह्वानं कृतम्।