भारतीयः अन्तरिक्षयात्री शुभांशु शुक्लः विगत जून मासस्य पञ्चविन्शति दिनाङ्के एक्जियोम्-4 इत्यभियानेन अन्तरिक्षं प्रस्थितवान्, अवसरोऽयं देशाय ऐतिहासिकमहत्वधायी वर्तते। राकेश शर्मणः अनन्तरं शुक्लः चतुर्ष दशकेषु प्रथमः भारतीयः अस्ति यः अन्तरिक्षं प्रविशति। तदा भारतीय-मानक-समयानुसारम् अपराले एकाधिकद्वादश- वादने संयुक्तराज्यामेरिकादेशस्य फ़्लोरिडा-नगरस्य केनेडी-स्पेस्-केन्द्रात् एतत् प्रक्षेपणम् अभवत्।
भारतीयवायुसेनादलस्य कैप्टन शुभांशु शुक्ला एक्सिओम-4 चालकम् इत्येतं समेत्य स्पेस-एक्स ड्रैगन अन्तरिक्षयानं अन्तर्राष्ट्रीयान्तरिक्षस्थानकेन- आईएसएस सह सफलतया जून मासस्य षष्ठ विन्शति दिनाङ्के भारतीय समयानुसारं सायं चतुर्वादने सम्मिलितम्। आईएसएस-याने चतुर्दश दिवसीय-वैज्ञानिक-अभियाने लखनऊनगरस्य शुभांशुशुक्ला अमेरिकी-पोलैण्ड्-हङ्ङ्गरी-देशानां अन्य-त्रिभिः अन्तरिक्षयात्रिभिः सह मिलित्वा हार्मोनी-मॉड्यूल्-इत्यस्मिन् स्थापितः। अनेन अभियानेन वैश्विक अन्तरिक्ष प्रौद्योगिक्याः नवीनतायां भारतस्य वर्धमानं नेतृत्वं प्रकाशितम् । नासा-समर्थनेन श्रीशुक्ला इसरो तथा जैवप्रौद्योगिकीविभागेन संयुक्तरूपेण विकसितानां अग्रणीजीवनविज्ञानप्रयोगानाम् नेतृत्वं करिष्यति।
एक्सिओम् मिशन् इत्यस्य नेतृत्वं अमेरिकादेशस्य कमाण्डर पेगी विट्सन् इत्येषः करोति, यत्र भारतीय-वायुसेनायाः ग्रुप कैप्टन् शुभांशु-शुक्लः मिशन्-पायलट इति रूपेण, हंगेरियन्-अन्तरिक्षयात्री टिबोर् कापू, पोलिश्-अन्तरिक्षयात्री स्लावोस् उज़्नान्स्की-विस्रीव्स्की च अभियानस्याअकरोत् ।ग्रुप कैप्टन् शुक्लः अन्तरिक्षात् सन्देशम् प्रेषितवान् यत् एषा अद्भुतयात्रा अस्ति इति। सः अवदत् यत् एषा यात्रा अन्ताराष्ट्रिय-अन्तरिक्ष केन्द्रस्य आरम्भः नास्ति अपितु भारतस्य मानव-अन्तरिक्ष-कार्यक्रमस्य आरम्भः अस्ति इति। ग्रुप कैप्टन् शुक्लः जयहिन्द जयभारत् इति उक्त्वा प्रत्येकं भारतीयः तस्य भागः भवितुं च आमन्त्रयत्।
ग्रुप कैप्टन् सुभान्शु शुक्लः अन्ताराष्ट्रिय-अन्तरिक्षस्थानके स्वस्याभियाने सप्त विशिष्टानि सूक्ष्म-गुरुत्वीय च प्रयोगाणि करिष्यति। ग्रूप्-क्याप्टन् शुक्लाय अवसरोऽयम् भारतीय-वायुसेनायाः विङ्ङ्ग्-कमाण्डर् राकेश-शर्मणः अनुकरणात्मकं भविष्यति, यः सोवियत्-इण्टर्कोस्मोस्-कार्यक्रमस्य भागत्वेन चतुरशीत्यधिकैकोनविंशतितमवर्षस्य तृतीय-एप्रिलेति दिनाङ्के सोयुज्-टी-11 इत्यस्मिन् उड्डीयत। शर्मा-वर्यः साल्युट् -7 इति अन्तरिक्षस्थानके सप्तदिनानि अन्तरिक्षे व्यतीतवान्।
राष्ट्रपतिपदासीना द्रौपदीमुर्मू इत्येषा अकथयत् यत् ग्रुप कैप्टन् सुभांशुशुक्लः भारताय अन्तरिक्षस्य नूतनं सोपानमुद्घाटयन्नस्तीति मत्वा, आराष्ट्र नक्षत्राणां यात्रायै गर्वोत्साहाभ्यां भरितमस्ति। सामाजिक-प्रसार माध्यमे राष्ट्रपतिः मुर्मुः अवदत् यत्, ग्रुप कैप्टन् शुक्लः तस्य सहान्तरिक्षयात्रिणश्व वस्तुतः वसुधैव कुटुंबकमिति सिद्धीकृतवन्तः। सा अभियानस्य सफलतायै शुभाशयाः प्रेषितवती। प्रधानमन्त्री नरेन्द्रमोदी सामाजिक-प्रसार-माध्यमेन अन्तरिक्षाभियानाय सफल-प्रक्षेपणस्य स्वागतम् अकरोत्, श्रीमोदी अवदत् यत्, भारतीयान्तरिक्षयात्री ग्रुप कैप्टन् शुभांशु शुक्लः अन्ताराष्ट्रिय-अन्तरिक्ष-केन्द्रम् प्रति गन्ता प्रथमः भारतीयः भवन्नस्तीति। प्रधानमंत्री अवदत् यत्, ग्रुप कैप्टन् शुक्लः चत्वारिंशदधिकैक-शतकोटि-भारतीयानां शुभाशयाः,आशाः, अभिलाषाश्च वहति।चालकदलस्य अभिवादनं कुर्वन् केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्री डॉ. जितेन्द्रसिंहः शुक्लायाः अन्तरिक्षे प्रवेशः राष्ट्रगौरवम्य क्षणः इति उक्तवान्। सः अवदत् यत्, सुभान्शु शुक्लः अस्य सम्पूर्णस्य अभियानस्य महत्त्वपूर्णः घटकः भविष्यतीति।











