दशदिवसीयं संस्कृत-संवाद-शिविरं प्रारभत् ।
वार्ताहर:-कुलदीपमैन्दोला।
पौड़ी गढ़वालं। उत्तराखण्डं।
परमार्थ-वैदिक-गुरुकुले कण्वाश्रमे कोटद्वारे रविवासरे दशदिवसीयः संस्कृत-संवाद-शिविरम् प्रारब्धम्। छात्राणां कृते सरलपद्धत्या संस्कृत-शिक्षायाः उद्देश्येन शिविरम् इदं संस्कृतभारत्याः कोटद्वारशाखया परमार्थ-वैदिक-गुरुकुलस्य च संयुक्त-तत्त्वावधानस्य अन्तर्गतं आयोज्यते।
उद्घाटन-कार्यक्रमस्य अध्यक्षता डॉ. रमाकान्त-कुकरेतीद्वारा, सेवनिवृत्त-प्रधानाचार्येण, राजकीय-इण्टर-कालेजः, कोटद्वार-स्थः इत्यनेन, अकुरुत। वर्ग-शिक्षकः डॉ. कुलदीप-मैन्दोला संस्कृत-अध्यापकः, वैदिक-गुरुकुलपरमार्थकण्वाश्रमे, ‘मम नाम …’, ‘भवतः नाम किम्?’ इत्यादीनि सरल-संवाद-आधारित-वाक्यानि प्रयुज्य छात्रान् रोचकप्रकारेण संस्कृतसम्भाषणं कारितवान्।
वंशबहादुरसिंहः, गुरुकुल-कण्वाश्रम-स्थः, संजय-रावतः, प्राचार्यः, वैदिक-आश्रम-गुरुकुल-कण्वाश्रम-स्थः, च मनमोहन-नौटियालः, प्रधानाचार्यः, परमार्थ-वैदिक-गुरुकुलस्य, इत्येते अतिथिरूपेण कार्यक्रमम् उपस्थाय छात्राणां मनोबलं वर्धितवन्तौ । डा.रमाकान्तकुकरेतीवर्येण अत्र कथितं यत् संस्कृतम् अस्माकं कृते आवश्यकम् अस्ति यतोहि सर्वं विज्ञानं संस्कृते एव अस्ति।
कार्यक्रमे श्वेता-रावतवर्या, प्रशान्तः, सहशिक्षक: सिद्धार्थ-नैथानी, सुभाषः, सुदीप-देवलियालः च पौडी विभाग संयोजक: पंकजध्यानी, योगशिक्षक: राकेशकण्डवाल: सर्वे छात्राणां मार्गदर्शननं च उत्साहवर्धनं कृतवन्त: ।











