संसदस्य मानसूनसत्रम् आरब्धम्, राष्ट्रहिताय महत्त्वपूर्णविधेयकानां चर्चा संभाविता

विगत सोमवासरे संसदः प्रावृट्-सत्रस्य आरम्भः अभवत् । संसदस्य मानसूनसत्रं अगस्तमासस्य एकविंशति-दिनाङ्कपर्यन्तं भविष्यति । अधिवेशनकाले द्वयोः सदनयोः आहत्य एकविंशतिः अधिवेशनानि भविष्यन्ति । अवधेयमस्ति यत्, आपरेशन् सिन्दूराभियानस्य अनन्तरम् एतत् संसदस्य प्रथमं सत्रं वर्तते । अस्मिन् अवसरे जन-विश्वास-विधेयकं विंशति-पञ्चविंशतिः, राष्ट्रियक्रीडाशासनविधेयकं-विंशति-पञ्चविंशतिः, आयकर-विधेयकं-विशति-पञ्चविंशतिः, इत्यादिभिः सह महत्त्वपूर्ण-विधेयकानि चर्चायै पारितार्थं च उपस्थापयितुं शक्यन्ते । सर्वकारेण स्पष्टीकृतम् यत् सत्रावसरे सर्वकारः महत्त्वपूर्णविषयाणां चर्चायै सिद्धः वर्तते ।
संसदस्य मानसूनसत्रे द्वयोः सदनयोः सुचारुरूपेण कार्य सुनिश्चेतुं, सत्रात् पूर्वम्, सर्वकारेण सर्वपक्षीयसंगोष्ठी कृता। सत्रस्य सुचारुरूपेण संचालनार्थ विपक्षदलेभ्यः सहकार्य प्राप्तुं सर्वकारेण एषा सभा आहूता आसीत् । लोकसभा-राज्यसभायाः प्रतिनिधित्वं कुर्वन्तः विभिन्न-राजनैतिकदलानां दलनेतारः सभायां उपस्थिताः आसन्। सभायाः अनन्तरं संसदीयकार्याणां मन्त्री किरेन रिजिजुः अवदत् यत्, सभा अतीव रचनात्मका आसीत् तथा च दलनेतारः स्वपक्षस्य स्थिति, अस्मिन् सत्रे यान् विषयान् ते उत्थापयितुम् इच्छन्ति तान् च प्रस्तुतवन्तः ।
प्रधानमन्त्रिणा नरेन्द्रमोदिना आशा प्रकटिता यत् सत्रमिदं सफलं चर्चाभिश्च समृद्धमपि भवेत्, येन देशस्य लोकतन्त्रं सुदृढं भविष्यति। सोमवासरे प्रातः संसदः वहिः, सत्रारम्भात् प्राक्, प्रसारमाध्यमान् सम्बोधयन् प्रधानमन्त्री अवदत् यत्, सत्रमिदं राष्ट्राय गौरवाभिवर्धकमस्तीति ।प्रधानमन्त्री अवदत् यत्, सम्पूर्णविश्वेन भारतस्य सैन्यशक्तेः क्षमता दृष्टा । सः अवदत् यत्, ऑपरेशन् सिन्दूर इति काले, भारतीयसैनिकाः शतप्रतिशतं सफलतया स्वलक्ष्यं प्राप्तवन्तः, आतङ्कवादस्य सूत्रधाराश्च तेषां गुप्तस्थानेष्वेव ध्वंसत्वं अलभन् । प्रधानमन्त्री मोदी अवदत् यत्, दल-स्तरादुपरि उत्थाय, प्राधान्येन राष्ट्र-हिताय अधिकांश-राजनैतिक दलानां प्रतिनिधयः विभिन्नानां देशानां भ्रमणम् अकुर्वन्, अन्ताराष्ट्रिय-मञ्चे पाकिस्तानस्य भूमिकाञ्च उद्घाटयितुं सामूहिकरूपेण अत्यन्त-प्रभावशालिनः अभियानस्य नेतृत्वम् अकुर्वन्निति । प्रधानमन्त्रिणा अग्रे प्रोक्तं यत्, भारते आतङ्कवादस्य नक्सल्-मतस्य वा अनेके हिंसात्मक-समाह्वनानि जातानि, परन्तु अद्य नक्सल्-मतस्य माओ-मतस्य च प्रभावः द्रुतगत्या सङ्कुचितः भवन्नस्ति । सः अवदत् यत्, अतीतस्य रक्तमार्गः अधुना वृद्धेः विकासस्य च हरितक्षेत्रेषु परिवर्तते। अद्य भारतं द्रुतगत्या अग्रे गमिष्यति इत्यपि सः अवदत् ।